SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [१२९] गाथा: ॥१-६॥ दीप अनुक्रम [२०५ -२१२] [भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं + वृत्ति:) मूलं [१२९] / गाथा ||५७-६२|| पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः ऐदयुगीनानां त्वसौ प्रथमैवेति मन्तव्यमिति । इह च नामविचारप्रस्तावात् प्रथमादिविभक्त्यन्तं नामैव गृह्यते, तथा (च्चा) ष्टविभक्तिभेदादष्टविधं भवति, न च प्रथमादिविभक्त्यन्तनामाष्टकमन्तरेणापरं नामास्ति, अतोऽनेन नामाष्टकेन सर्वस्य वस्तुनोऽभिधानद्वारेण सङ्ग्रहादष्टनामेदमुच्यते इति भावार्थ: । (ग्रन्थाग्रं० ३००० ) से तं अट्टनामेत्ति निगमनम् ॥ १२९ ॥ अथ नवनाम निर्दिशन्नाह से किं तं नवनामे ?, २ णव कव्वरसा पण्णत्ता, तंजहा - वीरो सिंगारो अब्भुओ अ रोदो अ होइ बोधव्वो । वेलणओ बीभच्छो हासो कल्लुणो पसंतो अ ॥ १ ॥ नवनाग्नि नव काव्यरसाः प्रज्ञप्ताः, तत्र कवेरभिप्रायः काव्यं, रस्यन्ते अन्तरात्मनाऽनुभूयन्त इति रसाः, तत्तत्सहकारिकारणसन्निधानोद्भूताश्चेतोविकारविशेषा इत्यर्थः, उक्तं च- “बाह्यार्थालम्बनो यस्तु, विकारो मानसो भवेत् । स भावः कथ्यते सद्भिस्तस्योत्कर्षो रसः स्मृतः ॥ १ ॥” काव्येषूपनिबद्धा रसाः काव्यरसाः- वीरशृङ्गारादयः, तानेवाह - 'वीरो सिंगारो' इत्यादिगाथा सुगमा, नवरं 'शूर वीर विक्रान्ता' विति वीर्यति - विक्रामयति त्यागतपोवैरिनिग्रहेषु प्रेरयति प्राणिनमित्युत्तमप्रकृतिपुरुषचरितश्रवणादिहेतुसमुद्भूतो दानाद्युत्साहमकर्षात्मको वीरो, रस इति सर्वत्र गम्यते, शृङ्गं सर्वरसेभ्यः परमप्रकर्ष कोटिलक्षणमियति गच्छतीति कमनीयकामिनीदर्शनादिसम्भवो रतिप्रकर्षात्मकः शृङ्गारः, सर्वरसप्रधान इत्यर्थः, अत एव For P&Praise City ~280~
SR No.035039
Book TitleSavruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size129 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy