________________
आगम
(४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
................ मूलं [१२३] / गाथा ||१७...|| ........ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१२३]
दीप अनुक्रम [१५०]
द्विनाम, दयोर्वा नानो समाहारो द्विनाममिति । एतदेव प्रकारान्तरेणाह-'अहवा दुनामें इत्यादि, जीवस्य नाम जीवनाम अजीवस्य नाम अजीवनाम, अत्रापि यदस्ति तेन जीवनाम्नाऽजीवनाम्ना वा भवितव्यमिति जीवाजीवनामभ्यां विवक्षितसर्ववस्तुसङ्घहो भावनीयः, शेषं सुगमं । पुनरेतदेवान्यथा पाह-'अहवा दुनामें'इत्यादि, द्रव्यमित्यविशेषनाम जीवे अजीवे च सर्वत्र सद्भावात्, जीवद्रव्यमजीवद्रव्यमिति च विशेषनाम, एकस्य जीव एवान्यस्य त्वजीव एव सद्भावादिति, ततः पुनरुत्तरापेक्षया जीवद्रव्यमित्यविशेषनाम, नारकस्तिर्यडित्यादि तु विशेषनाम, पुनरप्युत्तरापेक्षया नारकादिकमविशेषनाम रत्नप्रभायां भवो रानप्रभ इत्यादि तु वि-14 शेषनाम, एवं पूर्व पूर्वमविशेषनाम उत्तरोत्तरं तु विशेषनाम सर्वत्र भावनीयं, शेष सुगम, नवरं सम्मूर्च्छन्ति-11 तथाविधकर्मोदयाद गर्भमन्तरेणैवोत्पद्यन्त इति सम्मूर्छिमाः, गर्भे व्युत्क्रान्ति:-उत्पत्तिर्येषां ते गर्भव्युत्क्रा|न्तिकाः, उरसा भुजाभ्यां च परिसर्पन्ति-गच्छन्तीति विषधरगोधानकुलादयः सामान्येन परिसर्पाः, विशेपस्तूरसा परिसर्पन्तीत्युर परिसः सर्पादय एव, भुजाभ्यां परिसर्पन्तीति भुजपरिसी:-गोधानकुलादय, एव, शेष सुखोन्नेयं । तदेवमुक्ताः सामान्यविशेषनामभ्यां जीवद्रव्यस्य सम्भविनो भेदाः, साम्प्रतं प्रागुद्दिष्टमजीवद्रव्यमपि भेदतस्तथैवोदाहर्तुमाह-'अविसेसिए अजीवदब्वे इत्यादि, गतार्थ, तदेवं यदस्ति वस्तु तत्सर्व सामान्यनाम्ना विशेषनाम्ना वा अभिधीयते, एवमन्यत्रापि द्विनामत्वं भावनीयं, 'से तं दुनामें'त्ति निगमनम् ।। १२३ ॥
अनु. ११
JaEcon
ना
~228~