________________
आगम
(४५)
प्रत
सूत्रांक
[१०५
-११२]
गाथा
॥१॥
दीप
अनुक्रम [१२६
-१३५]
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ (मूलं+वृत्तिः)
मूलं [१०५-११२] / गाथा ||१५||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
शेष आनुपूर्वीति, आह- ननु यदि द्रव्यविशेष एवात्राप्यानुपूर्वी कथं तर्हि तस्य कालापूर्वीव, नैतदेवम्, अभिप्रायापरिज्ञानादू, यतः समयत्रयलक्षणकालपर्यायविशिष्टमेव द्रव्यं गृहीतं, ततश्च पर्याय पर्यायणोः कथञ्चिदभेदात् कालपर्यायस्य चेह प्राधान्येन विवक्षितत्वाद् द्रव्यस्यापि विशिष्टस्य कालानुपूर्वीत्वं न दुष्यति, मुख्यं समयत्रयस्यैवात्रानुपूर्वीत्वं किन्तु तद्विशिष्टद्रव्यस्यापि तदभेदोपचारात्तदुक्त इति भावः एवं चतुःसमयस्थित्यादिष्वपि वाच्यं, याबद्दश समयाः स्थितिर्यस्य परमाण्वादिद्रव्यसङ्घातस्य स तथा, सङ्ख्येयाः समयाः स्थितिर्यस्य परमाण्वादेः स तथा, असङ्ख्येयाः समयाः स्थितिर्यस्य परमाण्वादेः स तथा, अनन्तास्तु समया द्रव्यस्य स्थितिरेव न भवति, स्वाभाव्याद् इत्युक्तमेवेति शेषा बहुवचननिर्देशादिभावना पूर्ववदेव, एकसमयस्थितिकं परमाण्वाद्यनन्ताशुकस्कन्धपर्यन्तं द्रव्यमनानुपूर्वी, द्विसमयस्थितिकं तु तदेवावक्तव्यकमिति, शेषं पूर्वोक्तानुसारेण सबै भावनीयं यावद् द्रव्यप्रमाणद्वारे 'नो संखेज्जाई असंखेजाई नो अनंताई' इति, अस्य भावना-इह व्यादिसमयस्थितिकानि परमाण्वादिद्रव्याणि लोके यद्यपि प्रत्येकमनन्तानि प्राप्यन्ते तथाऽपि समयत्रयलक्षणायाः स्थितेरेकखरूपत्वात् कालस्य चेह प्राधान्येन द्रव्यवहुत्वस्य गुणीभूतत्वात् त्रिसमयस्थितिकैरनन्तैरप्येकमेवानुपूर्वीद्रव्यम्, एवं चतुःसमयलक्षणायाः स्थितेरेकत्वादनन्तैरपि चतुःसमयस्थि| तिकद्रव्ये रेकमेवानुपूर्वीद्रव्यम्, एवं समयवृद्ध्या तावन्नेयं यावदसङ्ख्येयसमयलक्षणायाः स्थितेरेकत्वादनन्तेरप्यसङ्ख्येय समयस्थितिकैर्द्रव्येरेक मेवानुपूर्वीद्रव्यमिति, एवमसङ्ख्येयान्येवात्रानुपूर्वीद्रव्याणि भवन्ति, एव
For P&Praise Cinly
~198~