SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [७] दीप अनुक्रम [११०] [भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं+वृत्तिः) मूलं [ ९७] / गाथा ||... || पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः अनुयो० मलधारीया ॥ ७४ ॥ समयः सङ्केतादिवाचकोऽप्यस्ति ततो विशिष्यते - अद्धारूपः समयोऽद्धासमयः, वक्ष्यमाणपट्टसाटिकादिपाटनदृष्टान्तसिद्धः सर्वसूक्ष्मः पूर्वापरकोटिविप्रमुक्तो वर्तमान एकः कालांश इत्यर्थः, अत एवात्र अस्तिकायत्वाभावः बहुप्रदेशत्व एव तद्भावाद्, अत्र त्वतीतानागतयोर्विनष्टानुत्पन्नत्वेन वर्तमानस्यैकस्यैव कालप्रदेशस्य सद्भावात्, नन्वेवमावलिकादिकालाभावः, समयबहुत्व एव तदुपपत्तेरिति चेद् भवतु तर्हि को निवारयिता ?, 'समयावलियमुहुत्ता दिवसमहोरत्तपक्वमासा य इत्याद्यागमविरोध इति चेत्, नैवम्, अभिप्रायापरिज्ञानाद्, व्यवहारनयमतेनैव तत्र तत्सत्त्वाभ्युपगमाद्, अत्र तु निश्चयनयमतेन तदसत्त्वप्रतिपादनात् न हि पुद्गलस्कन्धे परमाणुसङ्गात इवावलिकादिषु समयसङ्घातः कश्चिदवस्थितः समस्तीति तदसत्त्वमसौ प्रतिपद्यत इत्यलं चर्चयेति । अत्र च जीवपुद्गलानां गत्यन्यथाऽनुपपत्तेर्धर्मास्तिकायस्य तेषामेव स्थित्यन्यथाऽनुपपत्तेरधर्मास्तिकायस्य सत्वं प्रतिपत्तव्यं, न च वक्तव्यं तङ्गतिस्थिती च भ |विष्यतो धर्माधर्मास्तिकायी च न भविष्यत इति प्रतिबन्धाभावादेनकान्तिकतेति, तावन्तरेणापि तद्भवनेऽलोकेऽपि तत्प्रसङ्गात्, यदि तु अलोकेऽपि तद्वतिस्थिती स्यातां तदाऽलोकस्यानन्तत्वाल्लोकान्निर्गत्य जीवपुद्गलानां तत्र प्रवेशादेकविध्यादिजीवपुद्गलयुक्तः सर्वथा तच्हन्यो वा कदाचिल्लोकः स्यात् न चैतद्दृष्टमिष्टं वेत्याधन्यदपि दूषणजालमस्ति, न चोच्यते ग्रन्थविस्तरभयादिति । आकाशं तु जीवादिपदार्थानामाधारान्य १ समय आवलिका मुहतों दिवसोऽहोरात्रं पक्षो मासव. For P&Praise Cly ~ 159~ वृत्तिः उपक्र माधि० ॥ ७४ ॥ watyw
SR No.035039
Book TitleSavruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy