________________
आगम
(४५)
प्रत
सूत्रांक
[१]
दीप
अनुक्रम
[१०२]
[भाग-३९] “अनुयोगद्वार” - चूलिकासूत्र - २ ( मूलं +वृत्तिः)
मूलं [९१] / गाथा ||८...|| ...... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
आणुपुब्बी अपएसए आणुपुव्वी परमाणुपोग्गले अणाणुपुथ्वी दुपपसिए अवत्त
aar, से तं संगहस्स अट्ठपयपरूवणया ( सू० ९१ )
यावत् 'तिपएसिए आणुपुब्बी इत्यादि, इह पूर्वमेकस्त्रिप्रदेशिक आनुपूर्वी अनेके त्रिप्रदेशिका आनुपूर्व्य इत्याद्युक्तम्, अत्र तु संग्रहस्य सामान्यवादित्वात् सर्वेऽपि त्रिप्रदेशिका एकैवाऽऽनुपूर्वी, इमां चात्र युक्ति| मयमभिधत्ते- त्रिप्रदेशिकाः स्कन्धास्त्रिप्रदेशिकत्वसामान्याद् व्यतिरेकिणोऽव्यतिरेकिणो वा ?, पयायः पक्षस्तर्हि ते त्रिप्रदेशिकाः स्कन्धाः त्रिप्रदेशिका एव न भवन्ति, तत्सामान्यव्यतिरिक्तत्वात्, द्विप्रदेशिकादिवदिति, अथ चरमः पक्षस्तर्हि सामान्यमेव ते, तदव्यतिरेकात्, तत्खरूपवत्, सामान्यं चैकस्वरूपमेवेति सर्वेऽपि त्रिप्रदेशिका एकैवानुपूर्वी, एवं चतुष्प्रदेशिकत्वसामान्याव्यतिरेकात् सर्वेऽपि चतुष्प्रदेशिका एकैवानुपूर्वी, एवं यावदनन्तप्रदेशिकत्वसामान्याव्यतिरेकात् सर्वेऽप्यनन्तप्रदेशिका एकैवाऽऽनुपूर्वी इत्यविशुद्धसंग्रहनयमतं, विशुद्ध संग्रहनयमतेन तु सर्वेषां त्रिप्रदेशिकादीनामनन्ताणुकपर्यन्तानां स्कन्धानामानुपूर्वीत्व सामान्यान्यतिरेकाद्व्यतिरिक्ते चानुपूर्वीत्वाभावप्रसङ्गात् सर्वाऽप्येकैवानुपूर्वीति । एवमनानुपूर्वीत्वसामान्याव्यतिरेकात् | सर्वेऽपि परमाणुपुद्गला एकैवानानुपूर्वी, तथाऽवक्तव्यकत्व सामान्याव्यतिरेकात् सर्वेऽपि द्विप्रदेशिकस्कन्धा एकमेवावक्तव्यकमिति सामान्यवादित्वेन सर्वत्र बहुवचनाभावः, 'से त'मित्यादि निगमनम् ॥ ९१ ॥ भङ्गसमुस्कीर्तनतां निर्दिदिक्षुराह
For P&Praise Cnly
~ 150~