SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ आगम (४५) [भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:) ...................... मूलं [८०] / गाथा ||८|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्राक ८०] AAAAAAA गाथा ||१|| पर्यालोचयितव्यं, तथा आनुपूर्व्यादिपदाभिधेयद्रष्याणां प्रमाणं-सङ्ख्याखरूपं प्ररूपणीय, चा समुच्चये, एवमन्यत्रापि, तथा तेषामेव क्षेत्रं-तदाधारस्वरूपं प्ररूपणीयं, कियति क्षेत्रे तानि भवन्तीति चिन्तनीयमित्यर्थः, तथा स्पर्शना च वक्तव्या, कियत् क्षेत्रं तानि स्पृशन्तीति चिन्तनीयमित्यर्थः, तथा कालश्च तस्थितिलक्षणो वक्तव्यः, तथा अन्तरं-विवक्षितखभावपरित्यागे सति पुनस्तद्भावप्रासिविरह लक्षणं प्ररूपणीयं, तथा आनुपूर्वीद्रव्याणि शेषद्रव्याणां कतिभागे वर्तन्ते इत्यादिलक्षणो भागः प्ररूपणीया, तथा आनुपूादिद्रव्याणि कस्मिन् भावे वर्तन्ते इत्येवंरूपो भावः प्ररूपणीयः, तथा अल्पबहुत्वं चानुपूादिवब्याणां द्रव्यार्थप्रदेशार्थउभयार्थताश्रयणेन परस्परं स्तोकबहुत्वचिन्तालक्षणं प्ररूपणीयम्, एवकारोऽवधारणे, एतावत्प्रकार एवानुगम इति गाथासमासार्थः ॥१॥८० ।। व्यासार्थ तु ग्रन्थकारः स्वयमेव विभणिषुराद्यावयवमधिकृत्याऽऽह नेगमववहाराणं आणुपुव्वीदव्वाइं किं अस्थि नत्थि ?, णियमा अस्थि, नेगमववहाराणं अणाणुपुव्वीदव्वाई किं अत्थि णत्थि ?, णियमा अस्थि, नेगमववहाराणं अवत्तव्वगदव्वाई किं अत्थि णत्थि ?, नियमा अत्थि (सू०८१) नैगमव्यवहारयोरानुपूर्वीशब्दाभिधेयानि द्रव्याणि व्यणुकस्कन्धादीनि कि सन्ति नेति प्रश्ना, अनोत्तरम् । -'नियमा अस्थि' इति, एतदुक्तं भवति-नेदं खरशङ्गादिवदानुपूर्वीपद्मसदर्थगोचरम्, अतो नियमात् सन्ति दीप अनुक्रम [९०-९१] ~130
SR No.035039
Book TitleSavruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy