SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [७४] दीप अनुक्रम [८४] [भाग-३९] “अनुयोगद्वार” - चूलिकासूत्र - २ ( मूलं +वृत्तिः) मूलं [७४] / गाथा || ७...|| ...... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः अनु. १० मनन्तव्यक्तिख्यापनार्थी नैगमव्यवहारयोरित्थंभूताभ्युपगमप्रदर्शनार्थश्च बहुत्वनिर्देश इत्यदोषः । अग्राऽऽहनन्वनानुपूर्वीद्रव्यमेकेन परमाणुना निष्पद्यते, अवक्तव्यकद्रव्यं परमाणुद्धयेन, आनुपूर्वीद्रव्यं तु जघन्यतोऽपि परमाणुत्रयेणेति, इत्थं द्रव्यवृद्ध्या पूर्वानुपूर्वीक्रममाश्रित्य प्रथममनानुपूर्वी ततोऽवक्तव्यकं ततश्चाऽऽनुपूर्वीत्येवं निर्देशो युज्यते, पञ्चानुपूर्वीक्रमाश्रयेण तु व्यत्ययेन युक्तः, तत् कथं क्रमद्वयमुल्लङ्घयान्यथा निर्देशः कृतः ?, सत्यमेतत् किन्त्वनानुपूर्व्यपि व्याख्याङ्गमिति ख्यापनार्थः, यदिवा त्र्यणुकच तुरणुकादीन्यानुपूर्वीद्रव्याण्यनानुपूर्व्यवक्तव्यकद्रव्येभ्यो बहूनि तेभ्योऽनानुपूर्वीद्रव्याण्यल्पानि तेभ्योऽप्यवक्तव्यकद्रव्याण्यल्पतराणीत्यत्रैव वक्ष्यते, ततश्चेत्थं द्रव्यूहान्या पूर्वानुपूर्वीक्रमनिर्देश एवायमित्यलं विस्तरेण । 'से त'मित्यादि निगमनम् ॥ ७५ ॥ एआए णं नेगमववहाराणं अट्ठपयपरूवणयाए किं पओअणं ?, एआए णं नेगमववहाराणं अपयपरूवणयाए भंगसमुक्कित्तणया कज्जइ ( सू० ७५ ) • 'एआए णमित्यादि, 'एतया' अर्थपदप्ररूपणतया किं प्रयोजनमिति, अत्राऽऽह - 'एतया' अर्थपदप्ररूपणतया भङ्गसमुत्कीर्तना क्रियते, इदमुक्तं भवति- अर्थपदप्ररूपणतायां संज्ञासंज्ञिव्यवहारो निरूपितस्तस्मिंश्च सत्येवं भङ्गकाः समुत्कीर्तयितुं शक्यन्ते, नान्यथा, संज्ञामन्तरेण निर्विषयाणां भङ्गानां प्ररूपयितुमशक्यत्वात्, तस्माद् युक्तमुक्तम्-एतया अर्धपद्प्ररूपणतया भङ्गसमुत्कीर्तना क्रियत इति ॥ ७५ ॥ तामेव भङ्गसमुत्कीर्तनां निरूपयितुमाह For P&Praise City ~ 120~ watyw
SR No.035039
Book TitleSavruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy