________________
आगम
(४५)
प्रत
सूत्रांक
[७४]
दीप
अनुक्रम
[८४]
[भाग-३९] “अनुयोगद्वार” - चूलिकासूत्र - २ ( मूलं +वृत्तिः)
मूलं [७४] / गाथा || ७...|| ......
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
अनुयो०
मलधारीया
॥ ५४ ॥
न्यत्र एतच त्रिप्रदेशिकादिस्कन्धेष्वेव तथाहि यस्मात् परमस्ति न पूर्व स आदिः यस्मात् पूर्वमस्ति न परं सोऽन्तः, तयोश्चान्तरं मध्यमुच्यते, अयं च संपूर्णो गणनानुक्रमस्त्रिप्रदेशादिस्कन्ध एव, न परमाणौ, तस्यैकद्रव्यत्वेनादिमध्यान्तव्यवहाराभावाद्, अत एवायमनानुपूर्वीत्वेनोक्तो, नापि द्व्यणुकस्कन्धः, तत्रापि मध्याभावेन सम्पूर्णगणनानुक्रमाभावाद्, अत्राऽऽह- ननु - पूर्वस्यानु पश्चादनुपूर्वं तस्य भाव आनुपूर्वीति पूर्व व्याख्यातम्, एतच्च द्व्यणुकस्कन्धेऽपि घटत एव, परमाणुद्वयस्यापि परस्परापेक्षया पूर्वपञ्चाद्भावस्य विद्यमानत्वात्, ततः सम्पूर्णगणनानुक्रमाभावेऽपि कस्मादयमप्यानुपूर्वी न भवति ?, नैतदेवं यतो यथा मेर्वादिके कचित् पदार्थे मध्येऽवधौ व्यवस्थापिते लोके पूर्वादिविभागः प्रसिद्धस्तथा यद्यत्रापि स्यात्तदा स्यादप्येवं न चैवमत्रास्ति, मध्येऽवधिभूतस्य कस्यचिदभावतोऽसाङ्कर्येण पूर्वपश्चाद्भावस्थासिद्धत्वात् यद्येवं परमाणुवद् द्व्यणुकस्कन्धोऽप्यनानुपूर्वीत्वेन कस्मान्नोच्यते ?, सत्यं, किन्तु परस्परापेक्षया पूर्वपश्चाद्भावमात्रस्य सद्भावादेवमप्यभिधातुमशक्योऽसौ तस्मादानुपूर्व्यनानुपूर्वी प्रकाराभ्यां वक्तुमशक्यत्वादुवक्तव्यकमेव व्यणुरुस्कन्धः, तस्माद्व्यवस्थितमिदम्-आदिमध्यान्तभावेनावधिभूतं मध्यवर्तिनमपेक्ष्यासाङ्कर्येण मुख्यस्य पूर्वपञ्चाद्भावस्य सद्भावात् त्रिप्रदेशादिस्कन्ध एवाऽऽनुपूर्वी, परमाणुस्तुक्तयुक्त्याऽनानुपूर्वी, द्व्यणुकोऽवक्तव्यकः, इत्येवं संज्ञासंज्ञिसम्बन्धकथनरूपा अर्थपदप्ररूपणा कृता भवति । यथैवं त्रिप्रदेशिका आनुपूर्व्य इत्यादिबहुवचननिर्देश: किमर्थः ?, एकत्वमात्रेणैव संज्ञासंज्ञिसम्बन्धकथनस्य सिद्धत्वात्, सत्यं, किन्त्वानुपूर्व्यादिद्रव्याणां प्रतिभेद
For P&Praise City
~ 119~
वृत्तिः
उपक्र माधि०
॥ ५४ ॥