SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [६९] दीप अनुक्रम [७] [भाग-३९] “अनुयोगद्वार” - चूलिकासूत्र - २ ( मूलं +वृत्तिः) मूलं [६९] / गाथा ||७...|| ...... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः बाढं प्रशंसति, ततोऽसौ विलासिनी राजपुत्रादीनामन्यतरत्वेन तं विनिश्चित्य यथौचित्येनोपचरति, आनुकूल्येनोपचरिताश्च भुजङ्गाः प्रचुरतरमर्थजातं तस्यै प्रयच्छन्तीति । तथैकस्मिन्नगरे कश्चिद्राजा अमात्येन सहाश्ववाहनिकायां निर्गतः, तत्र च पथि गच्छता राजतुरङ्गमेन कुत्रचित् खिलप्रदेशे प्रश्रवणमकारि, तच तत्प्रदेशे पृथिव्याः स्थिरत्वेन बद्धच्छिल्लरकं चिरेणाप्यशुष्कं व्यावर्तमानो राजा तथैव व्यवस्थितमद्राक्षीत्, चिरावस्थायिजलं शोभनमत्र प्रदेशे तडागं भवतीति चिन्तयँश्चिरमवलोकितवाँश्च तदिङ्गिताकारपरिज्ञानकुशलतया चामात्येन राज्ञाऽभणितेनापि विदिततदभिप्रायेण खानितं तत्र प्रदेशे महासरः, तत्पाल्यां च रोपिताः सर्वर्तुकपुष्पफलसमृद्धयो नानाजातीयतरुनिवहाः, अन्यदा च तेनैव प्रदेशेन गच्छता भूपेन दृष्टं, पृष्टं चाहो ! मानससरोवद्रमणीयकं केनेदं खानितम् ?, अमात्यो जगाद - भवद्भिरेव, राजा सविस्मयं प्राह-कदा कश्च मयैतत्करणाय निरूपित इति, अतः सचिवो यथावृत्तं सर्व कथितवान्, अहो ! परचित्तोपलक्षकत्वममात्यस्पेति विचिन्त्य परितुष्टो राजा तस्य वृत्तिं वर्द्धयामासेति ॥ तदेवमित्या (वमा) दिकः संसारफलोऽपरोऽप्यप्रश| स्तभावोपक्रमः । अथ प्रशस्त भावोपक्रममाह - 'पसत्थो गुरुमाईणं'ति, तत्र श्रुतादिनिमित्तं गुर्वादीनां यद्भावोपक्रमणं स प्रशस्तभावोपक्रमः । आह- नन्वनुयोगद्वारविचारोऽत्र प्रकान्तः, अनुयोगश्च व्याख्यानम्, ततश्च यदेव तदुपकारि किञ्चित् तदेव वक्तव्यं भवति, गुरुभावोपक्रमस्त्वप्रस्तुतो, व्याख्यानानुपकारित्वात्, | तदेतदयुक्तं, गुरुभावोपक्रमस्यैव मुख्यव्याख्याङ्गत्वात् उक्तं च-- "गुर्वायत्ता यस्माच्छास्त्रारम्भा भवन्ति सर्वे For P&Pase Cnly ~110~
SR No.035039
Book TitleSavruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy