________________
आगम
(४५)
प्रत
सूत्रांक
[ ६५ ]
दीप
अनुक्रम
[७५]
[भाग-३९] “अनुयोगद्वार” - चूलिकासूत्र - २ ( मूलं +वृत्तिः)
मूलं [ ६५ ] / गाथा || ७...|| ......
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
से किं तं अचित्तदव्वोवक मे ?, २ खंडाईणं गुडाईणं मच्छंडीणं, से तं अचित्तदव्योवकमे (सू०६५)
॥ ४७ ॥
'अचित्तदव्वोक मे' इत्यादि, खण्डादयः प्रतीता एव, नवरं 'मच्छंडी' खण्डशर्करा एतेषां खण्डायचित्तद्रव्याणामुपायविशेषतो माधुर्यादिगुणविशेषकरणं परिकर्मणि सर्वथा विनाशकरणं वस्तुनाशे, अचित्तद्रव्यो* पक्रम इत्यत्रापि वाक्यशेषः । 'से त'मित्यादि निगमनम् ॥ ६५ ॥ अथ मिश्रद्रव्योपक्रममाह
अनुयो०
मलधारीया
से किं तं मीसए दव्वोवक्कमे ?, २ से चेव थासगआयंसगाइमंडिए आसाइ, से तं मीसए दव्वोवकमे, से तं जाणयसरीरभविअसरीरखइरित्ते दव्वोवकमे, से तं नोआगमओ दव्वोवक्कमे से तं दव्वोवक्कमे ( सू० ६६ )
स्वासकोऽश्वाभरणविशेषः, आदर्शस्तु वृषभादिग्रीवाभरणं, आदिशब्दात् कुङ्कुमादिपरिग्रहः । ततश्च तेषामश्वादीनामेडकान्तानां कुङ्कुमादिभिर्मण्डितानां स्थासकादिभिस्तु विभूषितानां यच्छिक्षादिगुणविशेषकरणं खङ्गादिभिर्विनाशो वा स मिश्रद्रव्योपक्रम इति शेषः । अश्वादीनां सचेतनत्वात् स्थासकादीनामचेतनत्वात् मिश्रद्रव्यत्वमिह भावनीयम् । अत्र च संक्षिप्ततरा अपि वाचनाविशेषा दृश्यन्ते, तेऽप्युक्तानुसारेण भावनीया: । 'से त'मित्यादि निगमनचतुष्टयम् । उक्तो द्रव्योपक्रमः ।। ६६ ।। इतः क्षेत्रोपक्रममभिधित्सुराह
For P&Pase City
~ 105~
वृत्तिः उपक्र
माधि०
॥ ४७ ॥