________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.................... मूलं -1/गाथा ||३|| ...... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४५] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत सूत्रांक ||३||
असत्यतामनुवीरन् , अथ तीर्थान्तरीयसम्मततीर्थकरोपदिष्टाः पदार्थराशयोऽनुमानप्रमाणेन वाध्यन्ते ततो न ते सत्याः, तदयुक्तम् , अनुमानप्रमाणेनातीन्द्रियज्ञानस्य बाधितुमशक्यत्वात्, आह च-"अतीन्द्रियानसंवेद्यान्, पश्यन्त्यापेण चक्षुषा । ये भावान् वचनं तेषां, नानुमानेन बाध्यते ॥१॥" अथ सम्भवंति जगति प्रज्ञालबोन्मेषदुर्विदग्धाः कुतर्कशास्त्राभ्याससम्पर्कतो वाचालाः तथाविधाद्भुतेन्द्रजालकौशलवशेन दर्शितदेवागमनभोयानचामरादिविभूतयः कीर्तिपूजादिलब्धुकामाः खयमसर्वज्ञा अपि सर्वज्ञा वयमिति बुवाणाः, तत एतावदेव न ज्ञायते यदुत-तेषां सर्वोत्तमप्रकर्षरूपमतीन्द्रियज्ञानमभूत् , यदि पुनर्यथोक्तखरूपमतीन्द्रियज्ञानमभविष्यत् तर्हि वचनमपि तेषां नाबाधिष्यत, अथ च दृश्यते बाधा ततस्ते कैतवभूमयो न सर्वज्ञा इति प्रतिपत्तव्यम् , तदेतदहत्यपि समानं, न समानम् , अर्हद्वचसि प्रमासंवाददर्शनात् , उक्तं च-"जैनेश्वरे हि वचसि, प्रमासंवाद इष्यते । प्रमाणबाधा त्वन्येषामतो द्रष्टा जिनेश्वरः ॥१॥" अथ पुरुषमात्रसमुत्थं प्रमाणमतीन्द्रियविषये न साधकं नापि बाधकमविषयत्वात् , समानकक्षतायां हि बाध्यबाधकभावः, तथा चोक्तम्-"समानविषया यस्माद्बाध्यबाधकसंस्थितिः । अतीन्द्रिये च संसारिप्रमाणं न प्रवर्त्तते ॥१॥" ततः कथमुच्यते-अहतो वचसि प्रमासंवाददर्शनं प्रमाणबाध्यत्वमन्येषामिति ?, तदपि न सम्यक् , यतो न भगवान् केवलमतीन्द्रियमस्मादृशामशक्यपरिच्छेदमेवोपदिशति, यदि पुनः तथाभूतमुपदिशेत् तर्हि न कोऽपि तद्वचनतः प्रवर्तेत, अतीन्द्रियार्थ वचः सर्वेषामेव विद्यते परस्परविरुद्धं च, ततः कथं तद्वचनतः प्रेक्षावतां प्रवृत्तिः,
दीप अनुक्रम
१३
REAnd
~70~