________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.................... मूलं [-]/गाथा ||३|| ........... पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
गिरीया
सर्वज्ञ
नन्दीतिः
प्रत सूत्रांक ||३||
॥२९॥
दीप अनुक्रम
च-"तटस्थत्वेन वेद्यत्वे, तत्त्वेनावेदनं भवेत् । तदात्मना तु वेद्यत्वेऽशुच्याखादः प्रसज्यते ॥ १॥" तदसत्, भ-13 वान् हि सका करणाधीनज्ञानः ततो रसं यथावस्थितमवश्यं जिद्धेन्द्रियव्यापारपुरस्सरमाखादत एव जानाति, भ- सिद्धिा. गवांस्तु करणव्यापारनिरपेक्षोऽतीन्द्रियज्ञानी ततो जिवेन्द्रियव्यापारसम्पाद्याखादमन्तरेणैव रसं यथावस्थितं तटस्थतया १५ सम्यग वेत्तीति न कश्चिदोपः । एतेन पररागादिवेदने रागित्वादिप्रसङ्गापादनमप्यपास्तमवसेयं, पररागादीनामपि यथावस्थिततया तटस्थेन सत्तावेदनात्, यदप्युक्तं-'कालतोऽनादिरनन्तः संसार इत्यादि' तदप्यसम्यग् , युगपत्सवैवेदनाद्, न च युगपद् सर्ववेदनमसम्भवि, दृष्टत्वात्, तथाहि-सम्यगजिनागमाभ्यासप्रवृत्तस्य बहुशो विचारितधर्माधर्मास्तिकायादिखरूपस्य सामान्यतः पञ्चास्तिकायविज्ञानं युगपदपि जायमानमुपलभ्यते, एवमशेषविशेषकलितपञ्चास्तिकायविज्ञानमपि भविष्यति, तथा चायमर्थोऽन्यैरप्युक्तो-"यथा सकलशास्त्रार्थः, खभ्यस्तः प्रतिभासते। मन| स्पेकक्षणेनेव, तथाऽनन्तादिवेदनम्॥१॥" यदप्युच्यते-'कथमतीतं भावि वा वेत्ति?, विनष्टानुत्पन्नत्वेन तयोरभावादिति तदपि न सम्यक्, यतो यद्यपीदानीन्तनकालापेक्षया ते असती, तथापि यथाऽतीतमतीते कालेऽवतिष्ट यथा च भावि(वर्त्यति)वर्तिष्यते तथा ते साक्षात्करोति ततो न कश्चिद्दोषः, स्यादेतत्-यथा भवद्भिर्ज्ञानस्य तारतम्यदर्शनात्प्रकर्षसम्भ-19॥ २९ ॥ योऽनुमीयते तथा तीर्थान्तरीयैरपि, ततो यथा भवत्सम्मततीर्थकरोपदर्शिताः पदार्थराशयः सत्यतामश्नुवते तथा तीर्थान्तरीवसम्मततीर्थकरोपदर्शिता अपि सत्यतामनुवीरन् , विशेषाभावाद्, अन्यथा भवत्सम्मततीर्थकरोपदर्शिता अपि
For P
OW
Jurasurary.org
~69~