________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.............. मूलं [४७]/गाथा ||८१...|| ........... पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्राक
[४७]
छद्मस्थः, छद्मस्थस्य च परचेतोवृत्तिरप्रत्यक्षा, तस्या अतीन्द्रियत्वेनैतद्विषये चक्षुरादीन्द्रियप्रत्यक्षप्रवृत्तेरभावात् , अप्रत्य- अज्ञानवाद्यक्षायां च सर्वज्ञस्य विवक्षायां कथमिदं ज्ञायते-एप सर्वज्ञस्याभिप्रायोऽनेन चाभिप्रायेण शब्दः प्रयुक्तो नाभिप्राया-18धिकार न्तरेण ?, तत एवं सम्यकपरिज्ञानाभावात् यामेव वर्णावलीमुक्तवान् भगवान् तामेव केवलां पृटतो लग्नोगौतमादिरभि-४ भाषते, न पुनः परमार्थतस्तस्योपदेशस्वार्थमवबुध्यते, यथाऽऽयंदेशोत्पन्नोक्तस्यानुवादकोऽपरिज्ञातशब्दार्थों म्लेच्छः, उक्तं च-"मिलक्खू अमिलक्खुस्स, जहा बुत्ताणुभासए । न हेउं से वियाणाइ, भासियं तऽणुभासए ॥१॥ एव-18 मन्नाणिया नाणं, वयंता भासियं सर्य । निच्छयत्वं न याणन्ति, मिलक्खुब अबोहिए ॥२॥” तदेवं दीर्घतरसंसारकारणत्वात् सम्यगनिश्चयाभावाच न ज्ञानं श्रेयः, किन्त्वज्ञानमेवेति स्थितं, ते चाज्ञानिकाः सप्तपष्टिसङ्ख्या असुनोपायेन प्रतिपत्तव्याः, इह जीवाजीबादीन् नव पदार्थान् कचित्पट्टिकादौ व्यवस्थाप्य पर्यन्ते उत्पत्तिः स्थाप्यते, तेषां च जीवाजीवादीनां नवानां पदार्थानां प्रत्येकमधः सप्त सत्त्वादयो न्यस्यन्ते, तद्यथा-सत्त्वमसत्वं सदसत्वमवाच्यत्वं सदवाच्यत्वमसदवाच्यत्वं सदसदवाच्यत्वं चेति। तत्र सत्त्वं खरूपेण विद्यमानत्वं, असत्त्वं पररूपेणाविद्यमानत्वं, सदसत्त्वं 8 खरूपपररूपाभ्यां विद्यमानाविद्यमानत्वं तत्र यद्यपि सर्व वस्त स्वरूपपररूपाभ्यां सर्वदेव खभावत एव सदसत् त-।।
दीप अनुक्रम [१४०]
१म्लेच्छोऽम्लेच्छस्य यथा उक्तमेवानुभाषते। न हेतुं तस्य विजानाति, भाषितं जनभाषते ॥१॥ एवमहानिका ज्ञानं वदन्तः भाषितं खकम् (भाषन्द्र ख)। निश्चयार्थ न जानन्ति म्लेच्छा इव अबोधिकाः॥२॥
~444~