________________
आगम
(४४)
प्रत
सूत्रांक
[ ४७ ]
दीप
अनुक्रम [१४० ]
[भाग-३८] “नन्दी” – चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [४७]/गाथा ||८१...|| .....
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४ ] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
श्रीमलयगिरीया
नन्दीवृत्तिः
॥२१४॥
विकार:
रूपेण प्रादुर्भावमवते, नान्यथा, तथाहि--यद्यदा यतो भवति तत्तदा तत एव नियतेनैव रूपेण भवदुपलभ्यते, अ- 5 क्रियावाद्यन्यथा कार्यकारणभावव्यवस्था प्रतिनियतरूपव्यवस्था च न भवेत्, नियामकाभावात्, तत एव कार्यनैयत्यतः प्रती यमानामिमां नियति को नाम प्रमाणकुशलो बाधितुं क्षमते ?, मा प्रापदन्यत्रापि प्रमाणपथव्याघातप्रसङ्गः तथा चोक्तम् -- "नियतेनैव रूपेण, सर्वे भावा भवन्ति यत् । ततो नियतिजा येते, तत्स्वरूपानुवेधतः ॥ १ ॥ यद्यदैव यतो यावत्तत्तदेव ततस्तथा । नियतं जायते न्यायात् (नान्यात्), क एनां बाधितुं क्षमः १ ॥ २ ॥” पञ्चमो विकल्पः स्वभाववा दिनां, ते हि स्वभाववादिन एवमाहुः - इह सर्वे भावाः स्वभाववशादुपजायन्ते, तथाहि - मृदः कुम्भो भवति न पटादि, तन्तुभ्योऽपि पट उपजायते न कुम्भादि, एतच प्रतिनियतभवनं न तथाखभावता मन्तरेण घटाकोटीसष्टङ्कमाटीकते, तस्मात् सकलमिदं स्वभावकृतमवसेयं, अपिच- आस्तामन्यत् कार्यजातं इह मुद्द्रपक्तिरपि न स्वभावमन्तरेण भवितुमर्हति तथाहि - स्थालीन्धनकालादिसामग्री सम्भवेऽपि न काइटुकमुद्वानां पत्तिरुपलभ्यते, तस्माद्यद्यद्भावे भवति यदभावे च न भवति तत्तदन्वयव्यतिरेकानुविधायि तत्कृतमिति स्वभावकृता मुद्द्रपत्तिरप्येष्टव्या, ततः सकलमेवेदं वस्तुजातं स्वभावहेतुकमव सेयमिति । तत एवं खत इति पदेन लब्धाः पञ्च विकल्पाः, एवं परत इत्यनेनापि पञ्च लभ्यन्ते, परत इति परेभ्यो व्यावृत्तेन रूपेण विद्यते खल्लयमात्मेत्यर्थः एवं नित्यत्वापरित्यागेन दश विकल्पा लब्धाः, एवमनित्यपदेनापि दश, सर्वे मिलिता विंशतिः, एते च जीवपदार्थेन लब्धाः, एवमजीवादिष्वष्टसु पदार्थेषु प्रत्येकं
Education International
For Parts Only
~439~
२०
॥२१४॥ २५
wor