SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ आगम (४४) [भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:) ............. मूलं [४३]/गाथा ||८१...|| .......... ................. पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति: खपरपवाया। प्रत सूत्रांक [४३] जगति रूपिद्रव्याणां ये गुरुलघुपर्याया ये च रूपिद्रव्याणामरूपिद्रव्याणां वाऽगुरुलघुपर्यायातान् सर्वानपि साक्षात्क- रतलकलितमुक्ताफलमिव केवलालोकेन प्रतिक्षणमवलोकते भगवान् , न च येन खभावेनेक पर्याय परिस्छिनत्ति तेनैव । खभावेन पर्यायान्तरमपि, तयोः पर्याययोरेकत्वप्रसक्तेः, तथाहि-घटपर्यायपरिच्छेदनखभावं यज्ञानं तद्यदा पटपयोयं परिच्छेत्तुमलं तदा पटपर्यायस्यापि घटपर्यायरूपताऽऽपत्तिः, अन्यथा तस्य तत्परिच्छेदकत्वानुपपचेः, तथारूपखभावाभावात्, ततो यावन्तः परिच्छेद्याः पर्यायास्तावन्तः परिच्छेदकास्तस्य केवलज्ञानस्य खभावा वेदितन्याः, स्वभावाश्च पर्यायास्ततः पर्यायानधिकृत्य सर्वद्रव्यपर्यायपरिमाणं केवलज्ञानमुपपद्यते, यदकारादिकं वर्णजातं तत्कथं सर्वद्रव्यपर्यायपरिमाणं भवितुमर्हति ?, तत्पर्यायराशेः सर्वद्रव्यपर्यायाणामनन्ततमे भागे वर्तमानत्वात् , तदयुक्तं, अकारादेरपि स्वपरपर्यायभेदभिन्नतया सर्वद्रव्यपर्यायपरिमाणतुल्यत्वाद, आह च भाष्यकृत्-"एकेकमक्खरं पुण सपरपज्जायभयओ भिन्नं । तं सबदषपज्जायरासिमाणं मुणेयचं ॥१॥" अथ कथं स्वपरपर्यायापेक्षया सर्वद्रव्यपर्यायराशितुल्यता ?, उच्यते, इह अ अ अ इत्युदात्तोऽनुदात्तः स्वरितश्च, पुनरप्येकैको द्विधा-सानुनासिको निरनुनासिकश्चेत्यकारस्य पड् भेदाः, तांश्च षड् भेदानकारः केवलो लभते, एवं ककारेणापि संयक्तो लभते पद भेदानेवं खकारेण एवं यावद्धकारेण, एवमेकेककेवलव्यअनसंयोगे यथा पट् २ भेदान् लभते तथा सजातीयविजातीयव्यानद्विकर्सयोगेऽपि, एवं खरान्तरसंयु दीप -1-% अनुक्रम [१३६] R M १ एकैकमक्षरं पुनः स्वपरपर्यायभेदतो भिन्नम् । तत् सर्षद्रव्यपयोयराशिमान ज्ञातव्यम् ॥ १॥ ~408~
SR No.035038
Book TitleSavruttik Aagam Sootraani 1 Part 38 Nandisootra Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages528
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy