________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............... मूलं [४०]/गाथा ||८१...|| ............. पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
संझ्यसंजि
श्रुतं सू.४०
सूत्राक
४०
श्रीमलय- जानाति, तथाहि-संज्ञिपञ्चेन्द्रियापेक्षया सम्मूछिमपञ्चेन्द्रियोऽस्फुटमर्थ जानाति, ततोऽप्यस्फुटं चतुरिन्द्रियः, त- गिरीया तोऽप्यस्फुटतरं त्रीन्द्रियः, ततोऽप्यस्फुटतमं द्वीन्द्रियः, ततोऽप्यस्फुटतममेकेन्द्रियः, तस्य प्रायो मनोद्रव्यासम्भवात् , नन्दीवृत्तिः
केवलमव्यक्तमेय किश्चिदतीवाल्पतरं मनो द्रष्टव्यं,यशादाहारादिसंज्ञा अव्यक्तरूपाः प्रादुष्पन्ति, 'सेत्त'मित्यादि, सोऽयं ॥१९ ॥ कालिक्युपदेशेन संज्ञी । 'से किं तमित्यादि, अथ कोऽयं हेतूपदेशेन संज्ञी?, हेतुः कारणं निमित्तमित्यनान्तरं,
उपदेशनमुपदेशः हेतोरुपदेशनं हेतूपदेशस्तेन, किमुक्तं भवति ?-कोऽयं संज्ञित्वनिवन्धनहेतुमुपलभ्य कालिक्युपदेशेनासंयपि संज्ञीति व्यवहियते ?,आचार्य आह-हेतूपदेशेन संज्ञा यस्य प्राणिनोऽस्ति-विद्यतेऽभिसन्धारणम्-अव्यक्तेन
व्यक्तेन वा विज्ञानेनालोचनं तत्पूर्विका-तत्कारणिका 'करणशक्तिः' करणं क्रिया तस्यां शक्तिः-प्रवृत्तिः स प्राणी प्राणमिति वाक्यालङ्कारे हेतूपदेशेन संज्ञीति भण्यते, एतदुक्तं भवति-यो बुद्धिपूर्वकं खदेहपरिपालनार्थमिष्टेष्वाहारादिषु
वस्तुषु प्रवर्तते अनिष्टेभ्यश्च निवर्त्तते स हेतूपदेशेन संज्ञी, स च द्वीन्द्रियादिरपि वेदितव्यः, तथाहि-इष्टानिष्टविषयप्रवृत्तिनिवृत्तिसञ्चिन्तनं न मनोव्यापारमन्तरेण सम्भवति, मनसा पर्यालोचनं संज्ञा, सा च द्वीन्द्रियादेरपि वियत, तस्यापि प्रतिनियतेष्टानिष्टविषयप्रवृत्तिनिवृत्तिदर्शनात्, ततो द्वीन्द्रियादिरपि हेतूपदेशेन संज्ञी लभ्यते, नवरमस्य चिन्तनं प्रायो वर्तमानकालविषयं न भूतभविष्यद्विषयमिति न कालिक्युपदेशेन संज्ञी लभ्यते, यस्य पुनर्नास्त्यभिसन्धा|रणापूर्विका करणशक्तिः स प्राणी 'ण'मिति वाक्यालङ्कारे हेतूपदेशेनाप्यसंज्ञी लभ्यते, स च पृथिव्यादिरेकेन्द्रियो वेदि-1
दीप अनुक्रम [१३३]
MA
~391~