SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक |||| दीप अनुक्रम [3] [भाग-३८] “नन्दी” - चूलिकासूत्र - १ (मूलं + वृत्ति:) मूलं [-] /गाथा || १ || पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः श्रीमलयगिरीया नन्दीवृत्तिः ॥ १४ ॥ तु प्रागुपात्तपुण्यकर्मवशतः सुखासिकामनुभवन्तोऽवतिष्ठन्ते न ते व्यापादनीया' इत्यादि, तदप्ययुक्तं यतः पुण्यपापक्षयान्मुक्तिः, ततो यथा परेषां पापक्षपणाय व्यापादने भवतः प्रवृत्तिः तथा पुण्यक्षपणायापि भवति, अथ पापं दुःखानुभवफलं ततो व्यापादनेन दुःखोत्पादनतः पापं क्षपयितुं शक्यं पुण्यं तु सातानुभवफलं तत्कथं दुःखोत्पादनेन क्षपयितुं शक्यम् ?, सातानुभव फलं हि कर्म सातानुभवोत्पादनेनैव क्षपयितुं शक्यम्, नान्यथा, तदपि न समीचीनं, यतो यत्पुण्यं विशिष्टं देवभवे वेदनीयं तन्मनुष्यादिभवव्यापादनेन प्रत्यासन्नीक्रियते, प्रत्यासन्नीकृतं च प्रायः खल्पकालवेद्यं भवति, तत एवं पुण्यक्षपणस्यापि सम्भवात् कथं न व्यापादनेन पुण्यपरिक्षयः ?, अथ व्यापादनानन्तरं विशिष्टदेवभववेदनीयः पुण्योदयः सन्दिग्धः, कस्यचित्पापोदयस्यापि सम्भवात्, ततोन व्यापादनं पुण्यमनुभवतः कर्त्तुमुचितम्, यद्येवमितरत्र कथं निश्चयः १, इतरत्रापि हि संदेह एव, तथाविधदुःखितोऽपि यदि मार्यते तर्हि नरकदुःखानुभवभागीभवति, अमारितश्च सन् कदाचनापि प्रभूतसत्त्वव्यापादनेन पुण्यमुपाये विशिष्टदेवा दिभवभागीभवेत्, ततो दुःखितानामपि व्यापादनं न भवतो युक्तम्, एवं च सति सन्दिग्धानैकान्तिकोऽपि हेतुः, व्यापादनस्य परिणामसुन्दरत्वसन्देहात् यदप्युक्तं-- 'युष्मत्सिद्धान्तानुगतं नारकखरूपोपदर्शकं वचः' इत्यादि, तदप्यसमीक्षिताभिधानं, सम्यगस्मत्सिद्धान्तापरिज्ञानाद्, अस्मत्सिद्धान्ते ह्येवं नारकखरूपव्यावर्णना-नारकाणां परमाधार्मिकसुरो दीरितदुःखानां परस्परोदीरितदुःखानां वा वेदनातिशयभावतः सम्मोहमुपागतानां नातीव परत्र संक्लेशो यथाऽत्रैव केषाञ्चिन्मानवानां Ecation Internation For Parts Only ~39~ संसारमो चकमतखंडनम्. १५ २० ॥ १४ ॥ २६
SR No.035038
Book TitleSavruttik Aagam Sootraani 1 Part 38 Nandisootra Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages528
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy