________________
आगम
(४४)
प्रत
सूत्रांक [३५-३६]
दीप
अनुक्रम
[११९
-१२०]
[भाग-३८] “नन्दी” – चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [ ३५-३६ ]/ गाथा ||७४...||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४ ] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
श्रीमलयगिरीया नन्दीवृत्तिः
॥ १८० ॥
ल्पनारहितं तथा चाह- 'नो वेव णं जाणइ के वेस सहाइ'ति न पुनरेवं जानाति क एष शब्दादिरर्थ इति स्वरूपद्रव्यगुणक्रियाविशेषकल्पनारहितमनिर्देश्यं सामान्यमात्रं गृह्णातीत्यर्थः एवंरूपसामान्यमात्रग्रहणकारणत्वादर्थावग्रहस्य, एतस्माच पूर्वः सर्वोऽपि व्यञ्जनावग्रहः, एषा मल्लकदृष्टान्तेन व्यञ्जनावग्रहस्य प्ररूपणा, हुंकारकरणं चार्थावग्रहबलप्रवर्त्तितं, तत इहां प्रविशति - किमिदं किमिदमिति विमर्श कर्त्तुमारभते, 'ततः' ईहानन्तरं क्षयोपशमविशेषभावात् जानाति -अमुक एष शब्दादिरिति, 'ततः' एवंरूपे ज्ञानपरिणामे प्रादुर्भवति सति सोऽपायं प्रविशति, ततोऽपायानन्तरमन्तर्मुहूर्त्तकालं यावदुपगतं भवति - सामीप्येनात्मनि शब्दादिज्ञानं परिणतं भवति, अविच्युतिरन्तर्मुहूर्त्तकालं यावत्प्रवर्त्तते इत्यर्थः, ततो धारणां प्रविशति, सा च धारणा वासनारूपा द्रष्टव्या, यत आह-' तत्तो ण'मित्यादि, ततो धारणायां प्रवेशात् 'ण' मिति वाक्यालङ्कारे सङ्ख्येयं वा असङ्ख्येयं वा कालं हृदि धारयति, तत्र सङ्ख्येय वर्षायुषः सङ्ख्येयकालं, असङ्ख्येयवर्षायुषस्त्वसङ्ख्येयं कालम् । अत्राह - सुप्तमङ्गीकृत्य पूर्वोक्तः प्रकारः सर्वोऽपि घटते, जाग्रतस्तु शब्दश्रवणसमनन्तरमेवावग्रहेहाव्यतिरेकेणावायज्ञानमुपजायते, तथाप्रतिप्राणि संवेदनात्, तन्निषेधार्थमाह- 'से जहानामए' इत्यादि, स यथानामकः कश्चिज्जाग्रदपि पुरुषोऽव्यक्तं शब्दं शृणुयात्, अव्यकमेव प्रथमं शब्दं शृणोति, अव्यक्तं नाम अनिर्देश्यस्वरूपं नामजात्यादिकल्पनारहितं, अनेनावग्रहमाह, अर्थावग्रहथ श्रोत्रेन्द्रियस्य सम्बन्धी व्यञ्जनावग्रहमन्तरेण न भवति ततो व्यञ्जनावग्रहोऽप्युक्तो वेदितव्यः, अत्राह -- नन्वेवं क्रमो न कोऽप्युपलभ्यते,
Education Internation
For Parts Only
~371~
प्रतिबोधकदृष्टान्तो
मल्लकदृष्टान्तथ
सू. ३६
२०
।। १८० ।।
२५
२६
[qandrary org