________________
आगम
(४४)
प्रत
सूत्रांक
[३१]
दीप
अनुक्रम [११५]
[भाग-३८] “नन्दी” - चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [३१]/गाथा ||७४...|| .....
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
नाशब्दो- रूपादिः इति शब्दस्वरूपावधारणं विशेषावगमः, ततोऽस्मात् यत्पूर्वमनिर्देश्य सामान्यमात्रग्रहणमेकसामयिकं स पारमार्थिकार्थावग्रहः, तत ऊर्द्ध तु यत्किमिदमिति विमर्शनं सा ईहा, तदनन्तरं तु यच्छब्दस्वरूपावधारणं शब्दोऽयमिति तदवायज्ञानं तत्रापि यदा उत्तरधर्म्मजिज्ञासा भवति - किमयं शब्दः शाङ्खः किं वा शाईः ? इति तदा पाश्चात्यं शब्द इति ज्ञानं विशेषावगमापेक्षया सामान्यमात्रालम्बनमित्यवग्रह इत्युपचर्यते, स च परमार्थतः सामान्यविशेषरूपार्थालम्बन इति विशेषसामान्यार्थावग्रह इत्युच्यते, इदमेव च शब्द इति ज्ञानमवलम्ब्य किमयं शाङ्खः ? किं या शार्ङ्गः ? इति ज्ञानमुदयते, ततो विशेषसामान्यार्थावग्रहोऽवलम्वन इत्युक्तः, ततोऽवलम्बनस्य भावोऽवलम्बनता, ततोऽप्यूर्द्ध किमयं शाङ्खः ? किं वा शार्ङ्ग इतीहित्वा यच्छास एवं शार्ङ्ग एव वेति ज्ञानं तदवायज्ञानं, तदपि च किमयं शाङ्खोऽपि शब्दः मन्द्रः किं वा तार? इत्युत्तरविशेषजिज्ञासायां पाश्चात्यं पाश्चात्यमवायज्ञानमुत्तरोत्तरविशेषावगमा|पेक्षया सामान्यार्थावलम्बनमित्यवग्रह इत्युपचर्यते, किं मन्द्रः ? किं वा तारः ? इतीह मन्द्र एवायं तार एवायमित्यवायः, एवमुत्तरोत्तर विशेषजिज्ञासायां पाश्चात्यं पाश्चात्यमवायज्ञानमुत्तरोत्तरविशेषावगमापेक्षया सामान्यार्थावलम्बनमित्यवग्रह इत्युपचर्यते, यदा उत्तरधर्मजिज्ञासा न भवति तदा तदत्यं विशेषज्ञानमवायज्ञानमेव, नावग्रह इत्युपचयेते, उपचारनिबन्धनाभावात्, उत्तरविशेषाकाङ्क्षाया अपगमात्, ततस्तदनन्तरमविच्युतिरूपा धारणा प्रवर्त्तते, वासनास्मृती तु सर्वेष्वपि विशेषावगमेषु द्रष्टव्ये, तथा चाह प्रवचनोपनिषद्वेदी भगवान् जिनभद्रगणिक्षमाश्रमण:- २१३
For Partise Only
~360~
अवग्रहकाकानि
सू. ३१
५
१०