________________
आगम
(४४)
प्रत
सूत्रांक
[२९]
दीप
अनुक्रम
[११३]
[भाग-३८] “नन्दी” - चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [२९]/गाथा ||७४...|| .....
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४ ] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
श्रीमलयगिरीया नन्दीवृत्तिः
॥ १७३॥
Jan Eucator
भवितव्यं तत्र रूपरसस्पर्शगन्धानां पृथिव्यादिमहाभूतचतुष्टयमाश्रयः शब्दस्य त्याकाशमिति, तदयुक्तम्, एवं सति पृथिव्यादीनामप्याकाशगुणत्वप्रसक्तेः तेषामप्याकाशाश्रितत्वात् न खल्वाकाशमन्तरेण पृथि व्यादीनामप्यन्यदाश्रयः, अगुणत्वात्पृथिव्यादीनामाकाशगुणत्वमनुपपन्नमिति चेत्, न, आकाशाश्रितत्वेन भवन्नीला बलादपि तद्गुणत्वप्रसक्तेः अथ नाश्रयणमात्रं तद्गुणत्त्रनिबन्धनं किन्तु समवायः, स चास्ति शब्दस्याकाशे न तु पृथिव्यादीनामिति, ननु कोऽयं समवायो नाम ?, एकत्र लोलीभावेनावस्थानं यथा पृथिव्यादिरूपायोरिति चेत्, न तर्हि शब्दस्याकाशगुणत्वमाकाशेन सहैकत्र लोलीभावेन तस्याप्रतिपत्तेः, अथाऽऽकाशे उपलभ्यमानत्वात्तगुणता शब्दस्य, तूलकादेरपि तर्षाकाशे उपलभ्यमानत्वात्तद्गुणत्वं प्रामोति, अथ तुलकादेः परमार्थतः पृथि व्यादिस्थानमाकाशे तूपलम्भो वायुना सञ्चार्यमाणत्वात्, यद्येवं तर्हि शब्दस्यापि न परमार्थतः स्थानमाकाशं किन्तु श्रोत्रादि, यत्पुनराकाशेऽवस्थानमुपलभ्यते तद्वायुना सञ्चार्यमाणत्वादवसेयं, तथादि-यतो यतो वायुः सञ्चरति ततस्ततः शब्दोऽपि गच्छति, वातप्रतिकूलशब्दस्याश्रवणात् उक्तं च- "यथा च प्रेर्यते तुलमाकाशे मातरिश्वना । तथा शब्दोऽपि किं वायोः, प्रतीपं कोऽपि शब्दवित् ॥ १॥” तन्नाकाशगुणः शब्दः, किन्तु पुद्गलमय इति स्थितम् । ?, गहे छव्विहे पण्णत्ते, तंजहा- सोइंदिअ अत्युग्गहे चक्खिंदिअअत्युग्गहे घाणिदिअअत्थुग्गहे जिभिदिअअत्युग्गहे फार्सिदिअअत्युग्गहे नोइंदिअअत्थुग्गहे । (सू० ३०)
For Parts Only
~357~
शब्दस्य
द्रव्यत्वम्
॥१७३॥
२५