SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ आगम (४४) [भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:) .................... मूलं [-]/गाथा ||१|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति: प्रत सूत्रांक ||१|| दीप यालं, असिद्धता च हेतोराप्तप्रणीतशब्दस्य वस्तुव्यतिरेकेण प्रवृत्त्यसम्भवात् , यत्पुनरिदमुच्यते-शब्दः श्रूयमाणो वभिप्रायविषयं विकल्पप्रतिबिम्ब तत्कार्यतया धूम इच वह्निमनुमापयति, तत्र स एव वक्ता विशिष्टार्थाभिप्रायशब्दयोराश्रयो धर्मी, अभिप्रायविशेषः साध्यः, शब्दः साधनमिति, तदाह-वक्तुरभिप्रेतं तु सूचयेयुरिति स एव तथा प्रतिपद्यमान आश्रयोऽस्त्विति, तत्पापात्पापीयः, तथाप्रतीतेरभावाद्, न खलु कश्चिदिह धूमादिव बहिं तत्का यतया शब्दादभिप्रायविषयं विकल्पप्रतिबिम्बमनुमिमीते, अपि तु वाचकत्वेन बाबम प्रत्येति, देशान्तरे कालान्तरे | मच तथाप्रवृत्त्यादिदर्शनात् , न च देशान्तरादावपि तथा प्रतीतावन्यथा परिकल्पनं श्रेयः, अतिप्रसङ्गप्राप्तेः, नामि॰मं जनयति किन्वदृष्टः पिशाचादिरित्यस्सा अपि कल्पनायाः प्रसङ्गात् , अपिच-अर्थक्रियार्थी प्रेक्षावान् प्रमाणमन्वे४पयति, न चाभिप्रायविषयं विकल्पप्रतिविम्ब विवक्षितार्थक्रियासमथे,किन्तु वायमेव वस्तु,न च वाच्यम्-अभिप्रायविपर्य विकल्पप्रतिविम्वं ज्ञात्वा बाये वस्तुनि प्रवर्तिष्यते तेनायमदोष इति, अन्यस्मिन् ज्ञाते अन्यत्र प्रवत्यनुपपत्तेः, न हि घटे परिच्छिन्ने पटे प्रवृत्तियुक्ता, एतेन विकल्पप्रतिबिम्बकं शब्दवाच्यमिति यत्प्रतिपनं तदपि प्रतिक्षिप्तमवसेयं, तत्रापि विकल्पप्रतिबिम्बके शब्देन प्रतिपन्ने वस्तुनि प्रवृत्त्यनुपपत्तेः, दृश्यविकल्पाववेकीकृत्य वस्तुनि प्रवर्तते इति चेत् , तथाहि-तदेव विकल्पप्रतिबिम्बकं बहीरूपतयाऽध्यवस्थति ततो बहिः प्रवर्तते तेनायमदोष इति, न तयोरेकीकर- अनुक्रम SAR १२ Halancinrary.org ~34~
SR No.035038
Book TitleSavruttik Aagam Sootraani 1 Part 38 Nandisootra Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages528
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy