________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.................... मूलं [-]/गाथा ||१|| ........... पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
श्रीमलय- गिरीया नन्दीवृत्तिः
प्रत सूत्रांक
दीप
विधत्ते, वस्त्वभावेऽपि तदविशेषात् , तन्न वस्तुनः परिच्छेदकं शाब्दज्ञानं रसज्ञानमिव गन्धस्य, प्रमाण चात्र-यज्ज्ञानं यदन्वयव्यतिरेकानुविधायि न भवति न तत्तद्विषय, यथा रूपज्ञानं रसविषयं, न भवति चे-14
प्रामाण्य. न्द्रियगम्यान्वयव्यतिरेकानुविधायि शाब्दं ज्ञानमिति व्यापकानुपलब्धेः प्रतिनियतवस्तुविषयवत्त्वं हि ज्ञानस्य निमित्तवत्तया व्याप्तं, अन्वयव्यतिरेकानुविधानाभावे च निमित्तवत्त्वाभावः स्यात्, निमित्तान्तरासम्भवात् , तेन तद्विषयवत्वं निमित्तवत्त्वाभावाद्विपक्षाद्यापकानुपलब्ध्या व्यावर्त्तमानमन्वयव्यतिरेकानुविधानेन व्याप्यते इति प्रतिबन्धसिद्धेः, तदयुक्तम्, प्रत्यक्षज्ञानेऽप्येवमविषयत्वप्रसक्तेः, तथाहि-यथा जलवस्तुनि जलोल्लेखि प्रत्यक्षमुदयपदवीमासादयति तथा जलाभावेऽपि मरौ मध्याह्नमार्तण्डमरीचिकाखक्षुण्णजलप्रतिभासमुदयमानमुपलभ्यते ततो जलाभावेऽपि जलज्ञानप्रतिभासाविशेषात् सत्यपि जले जलप्रत्यक्ष प्रादुर्भवन्न तद्याथात्म्यसंस्पर्शि, तद्भावाभावयोरननुकारादित्यादि सर्वं समानमेव, अत्र देशकालखरूपपर्यालोचनया तत्त्राप्यभावादिना च मरुमरीचिकासु जलोल्लेखिनः प्रत्यक्षस्य भ्रान्तत्वमवसीयते, भ्रान्तं चाप्रमाणं, ततो न तेन व्यभिचारः, प्रमाणभूतस्य च वस्त्वन्वयव्यतिरेकानुविधायित्वाद् व्यभिचार एव, तदेतदन्यत्रापि समानं, तथाहि-यथार्थदर्शनादिगुणयुक्तः पुरुष आप्तः, तत्प्रणीतशब्दस
॥११॥ मुत्थं च ज्ञानं प्रमाणं, न च तस्य वस्त्वन्वयव्यतिरेकानुविधायित्वब्यभिचारसम्भवः, यत्पुनरनाप्तप्रणीतशब्दसमुत्थं ज्ञानं तदप्रमाणं, अप्रमाणत्वाच न तेन व्यभिचारः, यदपि च प्रमाणमुपन्वस्तं तदपि हेतोरसिद्धत्वान्न साध्यसाधना
अनुक्रम
Sarasurary.org
~33~