________________
आगम
(४४)
प्रत
सूत्रांक
[२२]
दीप
अनुक्रम
[30]
[भाग-३८] “नन्दी” - चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [२२]/गाथा ||५९||..........
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४ ] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
श्रीमलयगिरीया नन्दीवृत्तिः
॥१३७॥
नकेवलदर्शनयोरुपयोगो न युगपदिति स्थितं । साम्प्रतं ये केवलज्ञानकेवलदर्शना भेदवादिनस्तन्मतमुपन्यस्यन्नाह - 'जह किर खीणावरणे देसन्नाणाण सम्भवो न जिणे । उभयावरणातीते तह केवलदंसणस्सावि ॥१७॥ यथा 'किले'त्यातोक्ती क्षीणावरणे भगवति जिने 'देशज्ञानानां' मत्यादीनां न सम्भवः तथा 'उभयावरणातीते' केवलज्ञानकेवलदर्शनावरणातीते भगवति केवलदर्शनस्यापि न सम्भवः । कथमिति चेदुच्यते-इह तावद् युगपदुपयोगद्वयं न जायते, सूत्रे तत्र तत्र प्रदेशे निषेधात्, न चैतदपि समीचीनं यत्तदावरण क्षीणं तथापि तन्न प्रादुर्भवति, ऊर्द्धमपि तदभावप्रसङ्गात्, ततः केवलदर्शनावरणक्षयादुपजायमानं केवलदर्शनं सामान्यमात्रग्राहकं केवलज्ञान एव सर्वात्मना सर्ववस्तुग्राहकेऽन्तर्भवतीति तदेवैकं केवलज्ञानं चकास्ति, न ततः पृथग्भूतं केवलदर्शनमिति । अत्र सिद्धान्तवादी केवलदर्शनस्य स्वरूपतः पार्थक्यं सिसाधयिषुरिदमाह - 'देसन्नाणोवरमे जह केवलणाणसंभवो भणिओ । देसहंसणविगमे तह केवलदंसणं होऊ ॥ १८ ॥ यथा भगवति मत्यादिदेशज्ञानोपरमे केवलज्ञानसम्भवः स्वरूपेण भणितस्त्वया तथा चक्षुर्द्दर्शनादिदेशदर्शनविगमे सति केवलदर्शनमपि ततः पृथक् स्वरूपतो भवतु, न्यायस्य समानत्वात्, अन्यथा पृथक् तदावरणकल्पनानैरर्थक्यापत्तेः । 'अह देसनाणदंसणविगमे तव केवलं मयं नाणं । न मयं केवलदंसणमिच्छामित्तं नणु तवेदं ॥ १९ ॥ अथ देशज्ञानदर्शनविगमे तव केवलज्ञानमेवैकं मतं, न मतं केवलदर्शनमिति, अत्राह - ननु तवेदमिच्छामात्रम्-अभिप्रायमात्रं, न त्वत्र काचनापि युक्तिः, न चेच्छामात्रतो वस्तुसिद्धिः सर्वस्य सर्वेष्वर्थेषु
For Pal Pal Use Only
~285~
ज्ञानदर्शनाभेदनि
रासः
२०
॥१३७॥ २५
Dar