________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.................. मूलं [२२]/गाथा ||१९|| ...... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
श्रीमलय- गिरीया नन्दीधृत्तिः ॥१३४॥
सुत्राक [२२]
CTS
दीप
मनेकधा विप्रतिपत्तिः, सा च चूर्णिणकृता मूलटीकाकृता च दर्शिता ततो वयमपि संक्षेपतो विनेयजनानुग्रहाय तां युगपदुपयोप्रदर्शयामः-'केई भणंति जुगवं जाणइ पासइ य केवली नियमा । अन्ने एगंतरिय इच्छंति सुओपएसेणं ॥१॥ गनिरास: अन्ने न चेव वीसु देसणमिच्छति जिणवरिंदस्स । जंचिय केवलनाणं तं चिय से दंसणं विति ॥ २॥ व्याख्या'केचन' सिद्धसेनाचार्यादयो 'भणंति' बुयते, किमित्याह-'युगपद्' एकस्मिन् काले 'केवली' केवलज्ञानवान् न त्वन्यश्छमस्थो जानाति पश्यति च 'नियमात्' नियमेन, अन्ये पुनराचार्या जिनभद्रगणिक्षमाश्रमणप्रभृतयः 'इच्छंति' मन्यन्ते, किमिति?, आह-एकान्तरितं केवली जानाति पश्यति चेति, एकस्मिन् समये जानाति एकस्मिन्समये पश्यतीत्यर्थः । कथमेतदिच्छन्तीति ?, अत आह-श्रुतोपदेशेन, आगमानुसारेणेत्यर्थः । 'अन्ने' इत्यादि, अन्ये केचिदृद्धाचार्या न चैव ज्ञानाद्दर्शनं विष्वक्-पृथगिच्छन्ति जिनवरेन्द्रस्य, जिनाः-उपशान्तरागादिदोषसमूहाः तेषां वराःप्रधाना निर्मूलत एव क्षीणसकलरामादिदोषोद्भबनिबन्धनमोहनीयकर्माणः, क्षीणमोहा इत्यर्थः, तेपामिन्द्रो-भगवान् उत्पन्न केवलज्ञानः तस्य,न त्वन्यस्य, किन्तु यदेव केवलज्ञानं तदेव 'से' तस्य केवलिनो दर्शनं त्रुवते, क्षीणसकलावरणस्य देशज्ञानाभयात् केवलदर्शनस्याप्यभावात् , तस्यापि वस्त्वेकदेशभूतसामान्यमात्रमाहितया देशज्ञानकल्पत्यादिति भा-11 वना । तत्र 'यथोद्देशं निर्देश' इति न्यायात् प्रथम युगपदुपयोगवादिमतं प्रदर्श्यते-ज केवलाई साई अपज्जयसियाई
| २५ दोवि भणियाई । तो विति केइ जुगवं जाणइ पासइ य सवन्नू ॥३॥' व्याख्या-'यत्' यस्मात कारणात् द्वे अपि ।
अनुक्रम [९०]
~279~