________________
आगम
(४४)
प्रत
सूत्रांक
[१५]
दीप
अनुक्रम
[७६]
[भाग-३८] “नन्दी” – चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [१५] / गाथा || ५५...||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
से किं तं अपडिवाइ ओहिनाणं ?, अपडिवाइ ओहिनाणं जेण अलोगस्स एगमवि आगासपएसं जाणइ पासइ तेण परं अपडिवाइ ओहिनाणं, से तं अपडिवाइ ओहिनाणं ॥ (सू० १५ ) अथ किं तदप्रतिपात्यवधिज्ञानं १, सूरिराह- अप्रतिपात्यवधिज्ञानं येनावधिज्ञानेन अलोकस्य सम्बन्धिनमेकमध्याकाशप्रदेशम्, आस्तां बहूनाकाशप्रदेशानित्यपिशब्दार्थः, पश्येत्, एतच सामर्थ्यमात्रमुपवर्ण्यते, न त्वलोके किञ्चिदप्यवधिज्ञानस्य द्रष्टव्यमस्ति, एतच प्रागेवोक्तं, तत आरभ्याप्रतिपाति आ केवलप्रासेरवधिज्ञानम्, अयमत्र भावार्थ:| एतावति क्षयोपशमे सम्प्राप्ते सत्यात्मा विनिहतप्रधानप्रतिपक्षयोधसंघातनरपतिरिव न भूयः कर्म्मशत्रुणा परिभूयते, किन्तु समासादितैतावदालोकजयोऽप्रतिनिवृत्तः शेषमपि कर्म्मशत्रुसङ्घातं विनिर्जित्य प्राप्नोति केवलराज्यश्रियमिति । तदेतदप्रतिपाति अवधिज्ञानं । तदेवमुक्ताः षडप्यवधिज्ञानस्य भेदाः, सम्प्रति द्रव्याद्यपेक्षयाऽवधिज्ञानस्य भेदान् चिन्तयति, --
तं समासओ चव्विहं पण्णत्तं, तंजहा- दव्वओ खित्तओ कालओ भावओ, तत्थ दव्वओ णं ओहिनाणी जहन्नेणं अनंताई रुविदव्वाईं जाणइ पासइ उक्कोसेणं सव्वाईं रुविदव्वाई जाणइ पासइ, खित्तओ णं ओहिनाणी जहन्त्रेणं अंगुलस्स असंखिज्जइभागं जाणइ पासइ उ
mationd
अवधिज्ञानस्य द्रव्यादि भेदे चतुर्विधत्वं
For Paren
~204~
अप्रतिपात्यवधिः
सू. १५
५
१०
१२