SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ आगम (४४) [भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:) .................... मूलं [-]/गाथा ||१|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति: गिरीया जीवसत्ता| सिद्धिः चार्वाकखंडनश्च. प्रत सूत्रांक दीप श्रीमलय सशक्तिरूपेण चैतन्यमस्ति ?, न हि घटे विद्यमाने पटरूपेण घटस्तिष्ठतीति वक्तुं शक्यम्, आह च प्रज्ञाकरगुप्तोऽपि-"रू- नन्दीवृत्तिः पान्तरेण यदि तत्तदेवास्तीति मा रटीः । चैतन्यादन्यरूपस्य, भावे तद्विद्यते कथम् ॥१॥" अथ द्वितीयः पक्षस्तर्हि चैतन्यमेव सा कथमनुपलम्भः ?, आवृतत्त्वादनुपलम्भ इति चेत्, नन्वावृतिरावरणं, तच्चावरणं किं विवक्षितपरिणामाभावः उत परिणामान्तरमाहोखिदन्यदेव भूतातिरिक्तं किञ्चित् १, तत्र न तावद्विवक्षितपरिणामाभावः, [एकान्ततुच्छतया तस्यावारकत्यायोगात, अन्यथा तस्याप्यतुच्छरूपतया भावरूपताऽऽपत्तिः, भावत्वे च पृथिव्यादीनामन्यतमो भावो भवेत, 'पृथिव्यादीन्येव भूतानि तत्त्वमिति वचनात्, पृथिव्यादीनि च भूतानि चैतन्यस्य व्यअकानि नावारकाणीति कथमावारकत्वं तस्योपपत्तिमत् ?, अथ परिणामान्तरम्, तदप्ययुक्तं, परिणामान्तरस्यापि भूतखभायतया भूतपयक्षकत्वस्यैवोपपत्तेनावारकत्वस्थ, अथान्यदेव भूतातिरिक्तं किञ्चित्, तदतीवासमीचीनं, भूतातिरिक्ताभ्युपगमे चत्वार्येव पृथिव्यादीनि भूतानि तत्वमिति तत्त्वसङ्ख्याव्याघातप्रसङ्गात्, अपि चेदं चैतन्य प्रत्येकं वा भूतानां धर्मः समुदायस बा?, न तावत्प्रत्येकमनुपलम्भात्, न हि प्रतिपरमाणु संवेदनमुपलभ्यते, | यदि च प्रतिपरमाणु भवेत्तर्हि पुरुषसहस्रचैतन्यवृन्दमिव परस्परं विभिन्नस्वभावमिति नैकरूपं भवेत, अथ चैकरूतापमुपलभ्यते, अहं पश्यामि अहं करोमीत्येवं सकलशरीराधिष्ठातृकैकरूपतयाऽनुभवात, अथ समुदायस्य धर्मः, तदप्यसत्, प्रत्येकमभावात, प्रत्येकं हि यदसत्तत्समुदायेऽपि न भवति, यथा रेणुषु तैलं, स्वादतेत्-मद्यानेषु प्रत्येक अनुक्रम ~17~
SR No.035038
Book TitleSavruttik Aagam Sootraani 1 Part 38 Nandisootra Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages528
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy