________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.................... मूलं [-]/गाथा ||१|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
-2-59-0-8
सूत्रांक ||१||
2
दीप
गम्या तथाऽनन्तरमेव वक्ष्यते, असाधारणगुणोत्कीर्तनरूपा च द्विधा-खार्थसम्पदभिधायिनी परार्थसम्पदभिधायिनी च, तत्र खार्थसम्पन्नः पराये प्रति समर्थो भवतीति प्रथमतः खार्थसम्पदमाह-'जयति' इन्द्रियविषयकषायघातिकर्मपरिपहोपसग्गादिशत्रुगणपरिजयात् सर्वानप्यतिशेते, इत्थं सर्वातिशायी च भगवान् प्रेक्षावतामवश्यं प्रणामाहः ततो जयतीति, किमुक्तं भवति ?-तं प्रति प्रणतोऽस्मीति, किंविशिष्टो जयतीत्याह-जगजीवयोनिविज्ञायकः' जगदू-धर्माधर्माकाशपुद्गलास्तिकायरूपं 'जगद् ज्ञेयं चराचर मिति वचनात् 'जीवा' इति जीवन्ति-प्राणान् धारयन्तीति जीवाः, कः प्राणान् धारयतीति चेत्, उच्यते, यो मिथ्यात्वादिकलुषिततया वेदनीयादिकर्मणामभिनिवर्तकस्तत्फलस्य च सुखदुःखादेरुपभोक्ता नारकादिभवेषु च यथाकर्मविपाकोदयं संसों सम्यग्दर्शनादिरसत्रयाभ्यासप्रकर्षवशाचाशेषकमांशापगमतः परिनिर्वाता स प्राणान् धारयति स एव चात्मेत्यभिधीयते, उक्तं च-"यः का कर्मभेदानां, भोक्ता कर्मफलस्य च । संसा परिनिर्वाता, स ह्यात्मा नान्यलक्षणः ॥ १ ॥” कथमेतत्सिद्धिरिति चेत् ?, उच्यते, प्रतिप्राणि खसंवेदनप्रमाणसिद्धचैतन्यान्यथाऽनुपपत्तितः, तथाहि-न चैतन्यमिदं भूतानां धर्मः, तद्धर्मत्वे सति पृथिव्याः काठिन्यस्येव सर्वत्र सर्वदा चोपलम्भप्रसङ्गात, न च सर्वत्र सर्वदा चोपलभ्यते, लोष्ठादौ मृतावस्थायां चानुपलम्भात्, अथात्रापि चैतन्यमस्ति केवलं शक्तिरूपेण ततो नोपलभ्यते, तदयुक्तं, विकल्पद्वयानतिक्रमातू, तथाहि-सा शक्तिश्चैतन्याद्विलक्षणा उत चैतन्यमेव ?, यदि विलक्षणा तर्हि कथमारट्यते
अनुक्रम
~16~