________________
आगम
(४४)
प्रत
सूत्रांक
[C]
दीप
अनुक्रम
[६०]
[भाग-३८] “नन्दी” – चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [८]/गाथा ||४७...||
पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४४ ] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
णामावर्त्तने कृते सति एकः कर्षोऽवशिष्टः त्रिस्थानकः, चतुर्णी कर्षाणामावर्त्तने कृते सति उद्धरति य एकः कर्षः स चतुःस्थानकः, एकस्थान कोऽपि च रसो जललवबिन्दु चुलकार्धचुलुकप्रसृत्य अलिक रककुम्भ द्रोणादिप्रक्षेपात् मन्दमन्दतरादिवदुभेदत्वं प्रतिपद्यते, एवं द्विस्थानकादयोऽपि एवं कर्मणामपि चतुःस्थानकादयो रसा भावनीयाः प्रत्येकमनन्त भेदभाजश्च कर्मणां चैकस्थानकादयो रसाः यथोत्तरमनन्तगुणा वेदितव्याः, उक्तं च - " अगंतगुणिया कुमेणियरे" तत्राशुभप्रकृतीनां चतुःस्थानकरसवन्धः प्रस्तररेखासहशैः अनन्तानुबन्धिक्रोधादिकैः क्रियते दिनकरात पशोषित तडागभूरेखा सौरप्रत्याख्यानसंज्ञैः क्रोधादिभिः त्रिस्थानकरसबन्धः सिकताकणसंहतिगतरेखासदृशैः प्रत्याख्यानावरणसंज्ञैर्द्विस्थानकरसबन्धो जलरेखासहशैस्तु सवलनसंज्ञैरेकस्थान करसबन्धः, शुभप्रकृतीनां पुनरेतदेव व्यत्यासेन योजनीयम्, नवरं द्विस्थानकादारभ्य, तथा चोक्तम्- "पत्रयेभूमीवालुयजलरेहासरिस संपराएयुं । चउठाणाई असुभाण सेसवाणं तु वचासो ॥१॥” इति 'शेषकाणां शुभप्रकृतीनां व्यत्यासो द्रष्टव्यः, सच द्विस्थानकादारभ्य यथोक्तं प्राक् । अथ कथमवसीयते ? यदुत द्विस्थानकादारभ्य व्यत्यासो नैकस्थानकादारभ्य १, उच्यते, शुभप्रकृतीनामेकस्थानकर सबन्धस्यासम्भवाद्, असम्भवः कथमिति चेद्, उच्यते, इहात्यन्तविशुद्धौ वर्त्तमानः शुभप्रकृतीनां चतुःस्थानकमेव रसं बनाति, ततो मन्दमन्दतरविशुद्ध त्रिस्थानकं द्विस्थानकं वा, सङ्क्लेशाद्वायां तु वर्त्त
१ अनन्तगुणाः कमेणेतरे । २ पर्वतभूमिवालुकाजल रेखासदृशैः संपरायैः । चतुःस्थानादयः अशुभानां शेषाणां तु व्यवासः ॥ १ ॥
For Parts Only
~166~
एकादीनिरसस्थानकानि.
१०
१३