________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
................ मूलं [२]/गाथा ||४७...|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
गिरीया नन्दीवृत्तिः
प्रत
१५
सत्राक
॥ ७४॥
रिन्द्रियब्यापारेऽप्यपरं धूमादिकमपेक्ष्याश्यादिविषयं ज्ञानमुदयते तल्लोके परोक्षं, तत्र साक्षादिन्द्रियव्यापारासम्भवात, ऐन्द्रियक
स्थ व्यवहारयत्पुनरात्मनः इन्द्रियमप्यनपेक्ष्य साक्षादुपजायते तत्परमार्थतः प्रत्यक्षं, तचावध्यादिकं त्रिप्रकारं, ततो लोकव्यवहा-४
प्रत्यक्षता. रमधिकृत्येन्द्रियाश्रितं ज्ञानमनन्तरसूत्रे प्रत्यक्षमुक्तं, न परमार्थतः, अथोच्यत-अनन्तरसूत्रे न किमपि विशेषसूचक पदमीक्षामहे, ततः कथमिदमवसीयते-संव्ययहारमधिकृत्येन्द्रियाश्रितं ज्ञानं प्रत्यक्षमुक्तं, न परमार्थत इति ?, उच्यते, उत्तरसूत्रार्थपर्यालोचनात् , प्रत्यक्षभेदाभिधानानन्तरं हि सूत्रमाचार्यों वक्ष्यति-'परोक्खं दुविहं पन्न, तंजहाआभिणिवोहियनाणं सुयनाण'मित्यादि, तत्राभिनिबोधिकमवग्रहादिरूपम् , अक्ग्रहादयश्च श्रोत्रेन्द्रियाद्याश्रिता ४ वर्णयिष्यति, तथदि श्रोत्रादीन्द्रियाश्रितं ज्ञानं परमार्थतः प्रत्यक्षं तत्कथमवग्रहादयः परोक्षज्ञानत्वेनाग्रेऽभिधीयन्ते ?, २० तस्मादुत्तरत्रेन्द्रियाश्रितज्ञानस्य परोक्षत्वेनाभिधानादवसीयते-अनन्तरसूत्रेणोच्यमानमिन्द्रियाश्रितं ज्ञानं व्यवहारप्रत्यक्षमुक्तं, न परमार्थत इति स्थितं, आह च-"एंगतेण परोक्खं लिंगियमोहाइयं च पञ्चक्खं । इंदियमणोभवं जा त संववहारपञ्चक्खं ॥ १॥" अकलकोऽप्याह-"द्विविधं प्रत्यक्षज्ञान-सांव्यवहारिकं मुख्यं च, तत्र सांव्यवहारिकमि- ॥७४ ॥ |न्द्रियानिन्द्रियप्रत्यक्ष, मुख्यमतीन्द्रियज्ञान"मिति, केवलमनोमात्रनिमित्तं श्रुतज्ञानं च लोकेऽपि परोक्षमिति प्रतीत,
१ एकान्तेन परोक्ष लैजिकमवण्यादिकं च प्रत्यक्षम् । इन्द्रियमनोभयं यत् तत् संव्यवहारप्रत्यक्षम् ॥१॥
अनुक्रम [५४]
~159~