________________
आगम
(४४)
प्रत
सूत्रांक
[8]
दीप
अनुक्रम
[43]
[भाग-३८] “नन्दी” - चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [१]/ गाथा ||४७...||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४ ] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
भेदमधिकृत्य व्यवस्थापितो ज्ञानस्य भेदः, ततस्तदपेक्षमावारकमपि तथा भिद्यमानं न युष्मादृशदुर्जनवचनीयतामा स्कन्दति । एवमुत्तेजितो भूयः सावष्टम्भं परः प्रश्नयति-ननु परिस्थूरनिमित्तभेदव्यवस्थापिता अप्यमी आभिनियोधिकादयो भेदा ज्ञानस्यात्मभूता उतानात्मभूताः किञ्चातः १, उभयथापि दोषः तथाहि - यद्यात्मभूतास्ततः क्षीणावरणेऽपि तद्भावप्रसङ्गः, तथा चासर्वज्ञत्वं प्रागुक्तनीत्या तस्यापद्यते, अथानात्मभूतास्तर्हि न ते पारमार्थिकाः, कथमावार्यापेक्ष वास्तव आवारकभेदः ?, तदपि न मनोरमं सम्यक् वस्तुतस्थापरिज्ञानाद् इह हि सकलघनपटलविनिर्मुक्तशारददिनमणिरिव समन्ततः समस्तवस्तुस्तोमप्रकाशनैकस्वभावो जीवः, तस्य च तथाभूतः खभावः केवलज्ञानमिति व्यपदिश्यते, स च यद्यपि सर्वघातिना केवलज्ञानावरणेनात्रियते तथापि तस्यानन्ततमो भागो नित्योद्घाटित एव “अक्खरस्स अणतो भागो निचुग्धाडिओ, जइ पुण सोऽवि आवरिजा तेणं जीवो अजीवत्तणं पाविज्जा" इत्यादि वक्ष्यमाणप्रवचनप्रामाण्यात्, ततस्तस्य केवलज्ञानावरणावृतस्य घनपटलाच्छादितस्येव सूर्यस्य यो मन्दः प्रकाशः सोऽपाअन्तरालावस्थित मतिज्ञानाद्यावरणक्षयोपशम भेदसम्पादितं नानात्वं भजते, यथा घनपटलावृत सूर्यमन्दप्रकाशोऽपान्तरालावस्थितकटकुड्याद्या वरणचिवरप्रदेशभेदतः, स च नानात्वं क्षयोपशमानुरूपं तथा तथा प्रतिपद्यमानः स्ववक्षयोपशमानुसारेणाभिधानभेदमश्रुते, यथा मतिज्ञानावरणक्षयोपशमजनितः स मन्दप्रकाशो मतिज्ञानं, श्रुतज्ञानावरणक्षयो
१ अक्षरस्यानन्वतमो भागों निलोपाटितः, यदि पुनः सोऽप्यानियेत तेन जीयोऽजीवत्वं प्राप्नुयात् ॥
For Parts Only
~148~
ज्ञानस
मेदपश्चकसिद्धि.
५
१०
१३
www.org