SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ आगम (४४) [भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:) ............. मूलं [-1/गाथा ||४४|| ...... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति: प्रत सूत्रांक ||४४|| - | खग्रामगमनं प्रपन्नाः, ततः प्रभूतदिवसभागातिक्रमेणापसृते युद्धे खास्थ्ये च लब्धे यत् किञ्चित्प्रथमतो विक्रयामासतुघृतं । तद्रव्यमादाय तयोः खग्रामं गच्छतोरपान्तरालेऽस्तं गते सहस्रभानी सर्वतः प्रसरमभिगृह्णति तमोविताने परास्कन्दिनः समागत्य वासांसि दव्यं बलीवी चापहतवन्तः, तत एवं तो महतो दुःखस्य भाजनमजायेताम् । एप रष्टान्तोऽयम- दृष्टान्तोर्थोपनयः-यो विनेयोऽन्यथा प्ररूपयन् अधीयानो वा कथमपि खरपरुषवाक्यैराचार्येण शिक्षितोऽधिक्षेपपुरस्सरं प्रति- पनयः, वदति-यथा त्वयैवेत्थमहं शिक्षितः, किमिदानीं निहुषे ? इत्यादि, स न केवलमात्मानं संसारे पातयति, किन्वा-2 चार्यमपि खरपरुषप्रत्युच्चारणादिना तीव्रतीव्रतरकोपानलज्वालनात् , भवन्ति च कुविनेया मृदोरपि गुरोः खरपरुषप्रत्युचारणादिना कोपप्रकोपकाः, यत उक्तमुत्तराध्ययनेषु-"अणासवा थूलक्या कुसीला, मिपि चंडं परति सीसा" इति ॥ अपि च-गुणगुरवो गुरवः, ततस्ते यदि कथमपि दुष्टशिष्यशिक्षापनेन कोपमुपागमत् तथापि तेषां भगवदाज्ञाविलोपतो गुाशातना ततश्चोपचिताशुभगुरुकर्मा नियमतो दीर्घतरसंसारभागी, किञ्च-एवं स वर्तमानो मतिमानपि श्रुतरत्वाबहिर्भवति, अन्यत्रापि तस्य दुर्लभश्रुतत्वात् , को हि नाम सचेतनो दीर्घतरजीविताभिलाषी सर्पमुखे खहस्तेन पयोबिन्दून् प्रक्षिपतीति, स चैकान्तेनायोग्यः १५ । प्रतिपक्षभावनायामपीदमेव कथानकं परिभावनीयं, केवलमिह घृतघटे भने सति द्वावपि तौ दम्पतीत्वरितं २ कपरे यथाशक्तिघृतं गृहीतवन्ती, स्तोकमेव विननाश, १ अनावचाः स्थूलवयसः कुशीला मृदुमपि चण्डं प्रकुर्वन्ति शिष्याः। २ अनादरे इत्यध्याहार्यम् । - दीप अनुक्रम [४६] । W ~136~
SR No.035038
Book TitleSavruttik Aagam Sootraani 1 Part 38 Nandisootra Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages528
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy