________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............. मूलं [-1/गाथा ||४४|| ...... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्रांक ||४४||
SADASANCHAR
मभाषिष्ट-समागच्छत २ खागतं युष्माकम् , अहो कृतकल्याणा वयं यदतर्कितोपनीतकाञ्चनवृष्टिरिव युष्मदर्शन मकाण्ड एव मन्मनोमोदाधायि संवृत्तमिति, तत एवमुक्त भ्रष्टप्रतिज़मात्मानमवबुध्य लजावनतकन्धराशिरोनयनः तस्योपपुष्करावर्तों यत्किञ्चिदाभाष्य खस्थानं गतः, एष दृष्टान्तः, उपनयस्त्वयम्कोऽपि शिष्यो मुद्गशैलसमानधर्मा निरन्तरं यत्नतः पाठयमानोऽपि पदमप्येकं भावतो नावगाहते, ततोऽयोग्योऽयमितिकृत्वा खाचार्यैरुपेक्षितः, तं च तथोपेक्षितमयबुध्य कोऽप्यन्य आचार्योऽभिनवतरुणिमावेगवशोज्जृम्भितमहावलपराक्रमः अत एवागणितव्याख्याविधिपरिश्रमो यौवनिकमदवशतोऽपरिभावितगुणागुणविवेको वक्तुमेवं प्रवृत्तो-यथैनमहं पाठयिष्यामि, पठति च लोकानां पुरतः सुभाषितम्-"आचार्यस्खैव तजाड्यं, यच्छिष्यो नावबुध्यते । गावो गोपालकेनेव, कुतीर्थेनावतारिताः॥१॥" ततः तं सर्वादरेण पाठयितुं लग्नः, स च मुद्गशैल इव दृढप्रतिज्ञो न भावतः पदमप्येकं खचेतसि परिणमयति, ततः खिन्नशक्तिराचार्यों भ्रष्टप्रतिज्ञमात्मानं जानानो लजितो यत्किमप्युत्तरं कृत्वा तत्स्थानादपसृत्य गतः, ततः एवंविधाय नेदमध्ययनं दातव्यम् , यतो न खलु बन्ध्या गौः शिरःशृङ्गबदनपृष्ठपुच्छोदरादौ सस्नेहं स्पृष्टाऽपि सती दुग्ध-18 प्रदायिनी भवति, तथाखाभाव्याद्, एवमेपोऽपि सम्यक् पाठ्यमानोऽपि पदमप्येकं नावगाहते, ततो न तस्य तायदुपकारः, आस्तां तस्योपकाराभावः प्रत्युत आचार्ये सूत्रे चापकीर्तिरुपजायते, यथा न सम्यकौशलमाचार्यस्य व्याख्यायामिदं वाऽध्ययनं न समीचीनं, कथमयमन्यथा नावबुध्यते इति ?, अपि च-तथाविधकुशिष्यपाठने तस्या- १३
दीप अनुक्रम [४६]
SARETRImatana
~122~