________________
आगम
(४३)
प्रत
सूत्रांक
||१६
-३३||
दीप
अनुक्रम
[९७८
-९९५]
उत्तराध्य.
बृहद्वृत्ति:
॥५२८||
[भाग-३७] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्तिः+वृत्तिः) मूलं [--] / गाथा ||१६-३३|| निर्युक्ति: [४७०...]
अध्ययनं [२५],
विधिनेतिभावः किमित्याह - 'न' नैव 'त' मिति प्रक्रमाद्वेदाध्येतारं यष्टारं वा 'त्रायन्ते' रक्षन्ति भवादिति गम्यते, किंविशिष्टं ?- 'दुःशीलं ' ताभ्यामेव हिंसादिप्रवर्त्तनेन दुराचारं किमिति १-यतः 'कर्माणि' ज्ञानावरणादीनि 'बलचन्ति' दुर्गतिनयनं प्रति समर्थानि 'इहे 'ति भवदवगमविषये वेदाध्ययने यजने च भवन्तीति गम्यते, पशुवन्धादि - प्रवर्त्तनेन तयोस्तद्बलाध्यकत्वादिति भावः अनेन दुर्गतिहेतुत्वात्खर्गहेतुत्वमप्यनयोः प्रत्युक्तम् उक्तं हि - "यूपं हित्वा पशु हत्या, कृत्वा रुधिरकर्दमम् । यद्येवं प्राप्यते स्वर्गे, नरके केन गम्यते १ ||१||" अतो नैतद्योगाद्राह्मणः पात्रभूतो भवति, किन्त्वनन्तराभिहितगुण एवेति भावः । अन्यच्च-नेति निषेधे 'अपिः' पूरणे 'मुण्डितेन' केशापनयनात्मकेन समं मनोऽस्येति निरुक्तविधिना श्रमणः-निर्ग्रन्थः, 'न' नैव ॐकारो (रेणोपलक्षणत्वाद् 'ॐ भूर्भुवःख'रित्याद्युचारणरूपेण ब्राह्मणः, तथा न मुनिररण्यवासेन, कुशो-दर्भविशेषस्तन्मयं चीवरं कुशचीवरं, बल्कलोपलक्षणमेतत्, तेन तापसः, अनूदितं चैतद्वाचकैः- “मुण्डनात् श्रमणो नैव, संस्काराद्वाह्मणो न वा । मुनिर्नारण्यवासित्वाइल्कलान्न च तापसो ॥ १ ॥” भवतीति सर्वत्र शेषः । कथममी तर्हि संभवन्तीत्याह- 'समतया' रागद्वेषाभावरूपया श्रमणो भवति, ब्रह्मणश्चरणं ब्रह्मचर्य, त्रह्म च द्विधा, यत उक्तम्- "द्वे ब्रह्मणी वेदितव्ये, शब्दब्रह्मपरं च यत् 1 शब्दत्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ १ ॥ एतानि च पराणि ब्रह्माणि वरिष्ठानि यानि प्रागहिंसादीन्युक्तानीति, एतद्रूपमेवेह ब्रह्मोच्यते, तेन ब्राह्मणो भवति, 'ज्ञानेन' हिताहितावगमरूपेण मुनिर्भवति 'तपसा'
Education intemational
For Party
यज्ञीया
ध्यय, २५
~91~
॥ ५२८ ॥
www.janbay.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः