SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ आगम (४३) [भाग-३७] “उत्तराध्ययनानि"- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२५], मूलं [-] / गाथा ||१६-३३|| नियुक्ति: [४७०...] प्रत सूत्रांक ॐॐॐ -३३|| बाबाभ्यन्तरभेदभिन्नेन भवति तापसः, सर्वत्राभिधानान्यथाऽनुपपत्तिरिह हेतुः, ननु चान्वर्थवत्वेऽभिधानस्यैष हेतुः,। तच्चान्यथाऽपि डित्यादिवत्स्यादत आह-'कर्मणा' क्रियया ब्राह्मणो भवति, उक्तं हि-"क्षमा दानं दमो ध्यानं, सत्सं शौचं धृति (दया घू)णा। ज्ञानविज्ञानमास्तिक्यमेतद्रामणलक्षणम् ॥१॥" तथा 'कर्मणा' क्षतत्राणलक्षणेन भवति क्षत्रियः, वैश्यः 'कर्मणा' कृषिपाशुपाल्यादिना भवति, शूद्रो भवति तु 'कर्मणा' शोचनादिहेतुप्रैपादिसंपादनरूपेण, कर्माभावे हि त्रासणादिव्यपदेशा नाऽऽसन्नेवेति, ब्राह्मणप्रक्रमेऽपि यच्छेषाभिधानं तन्मा भूनिरनुक्रोशतेति ब्यासिदर्शनार्थ, किच-भवन्मतेऽप्युक्तम्-"एकवर्णमिदं सर्व, पूर्वमासीयुधिष्ठिर! । क्रियाकर्मविभागेन, चातये | व्यवस्थितम् ॥ १॥" किमिदं खमनीषिकयैवोच्यते इत्याह-'एतान्' अनन्तरोक्तानहिंसाद्यर्थान् 'प्रादुरकात्'ि प्रकटितवान् 'बुद्धः' अवगततत्त्वः, पठ्यते च-'एए पाउकरा धम्मा' 'एते' उक्तरूपाः 'प्रादुष्कराः' नेमल्यकारितयाऽऽत्मनः प्रकाशहेतवः 'धर्माः' अहिंसादयो, यैर्भवति 'स्नातकः केवली सर्वकर्मभिर्विनिर्मुक्तः, इह च प्रत्यास नमुक्तितया सर्वकर्मविनिर्मुक्तः,सुब्ब्यत्ययात्प्रथमार्थे द्वितीया,'त'मित्यभिहितगुणं तत्त्वतः स्नातकं वा वयं ब्रूमो ब्रासठाणम् । सम्प्रत्युपसंहर्जुमाह-एवम्' उक्तप्रकारेण गुणैः-अहिंसादिभिः समायुक्ताः-समन्विता गुणसमायुक्ता ये भवन्ति | 'द्विजोत्तमाः' ब्रामणप्रधानास्ते 'समर्थाः' शक्ताः 'तुः पूरणे उद्धर्नु संसारादिति गम्यते अर्थान्मुक्तिपदे व्यवस्थापयितुं 'परम्' आत्मव्यतिरिक्तमात्मानमेव वेत्यष्टादशसूत्रगर्भार्थः ॥ अभिधाय चेदमवस्थितो भगवान् , ततश्च दीप अनुक्रम [९७८ 4%A6446 -९९५]] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति: ~92
SR No.035037
Book TitleSavruttik Aagam Sootraani 1 Part 37 Uttaradhyayan Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages466
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy