SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ आगम (४३) [भाग-३७] “उत्तराध्ययनानि"- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२५], मूलं [-] / गाथा ||१६-३३|| नियुक्ति: [४७०...] प्रत सूत्रांक -३३|| सातैरेव वृद्धिं नीयमानतया तन्मध्योत्पन्नोऽपि यस्तं वयं ब्रूमो ब्राह्मणं, तथा च तत्राप्यभिधायि-"यदा सर्व परित्यज्य, निस्सको निष्परिग्रहः । निश्चिन्तश्च चरेद्धर्म, अब सम्पद्यते तदा ॥१॥" इति । इत्थं मूलगुणयोगाचात्त्विकं ब्राह्मणमभिधायोत्तरगुणयोगतस्तमेवाह-(ग्रन्थानम् १३०००) 'अलोलुपम्' आहारादिष्यलम्पर्ट 'मुहाजीवित्ति सुब्व्यत्ययात् 'मुधाजीविनम्' अज्ञातोञ्छमात्रवृत्ति, पठ्यते च-'मुहाजीवित्ति अनगारमकिञ्चनं प्राग्वत् 'असंसक्तम्' असंबद्धं, कैः-गृहस्थैः, तृतीयार्थे सप्तमी विषयसप्तमी वा, अनेन काका पिण्डविशुद्धिरूपोत्तरगुणयुक्तत्वमुक्तं, 'तम्' उक्तगुणयुक्तमप्येवंविधं सन्तं वयं ब्रूमो ब्राह्मणं, कचित् पठ्यते च-'जहित्ता पुवसंजोगं, पाइसंगे य बंधवे । जो न सजइ भोएहि, तं वयं बूम बंभणं ॥' अत्र 'पूर्वसंयोग' मात्रादिसम्बन्धं 'ज्ञातिसंयोगान्' खस्रादिसम्बन्धान, चशब्दो भिन्नक्रमस्ततः 'बान्धवांश्च' भ्रात्रादीन् , शेषं स्पष्टम् , अनेन चातिनिःस्पृहताभिधानेनोत्तरगुणा अप्याक्षिप्ता भवन्ति । स्यादेतद्-वेदाध्ययनं यजनं च भवात्राय कमिति तद्योगादेव पात्रभूतो ब्राह्मणो न तु यथा त्वयोक्त इत्याशल्याह-पशूनां-छागानां बन्धो-विनाशाय नियमनं यैहेतुभिस्तेऽमी पशुबन्धाः श्वेतं छागमालभेत वायव्यां दिशि भूतिकाम' इत्यादिवाक्योपलक्षिताः, पाठान्तरतः पशवो बद्धा यैस्ते आहिताग्न्यादेराकृतिगणत्वात् क्तान्तस्य परनिपाते पशुवद्धाः, न तु ये.'आत्मा वारे ज्ञातव्यो मन्तव्यो निदिध्यासितव्यः' इत्यादिवाक्योपलक्षिताः सर्ववेदाः ऋग्वेदादयः 'जट्ट'ति इष्टं यजनं 'वा' समुच्चये 'पापकर्मणा' पापहेतुभूतपशुबन्धाद्यनुष्ठानेन तु हरिकेशीयाध्ययनोक्त दीप अनुक्रम [९७८ -९९५]] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति: ~90~
SR No.035037
Book TitleSavruttik Aagam Sootraani 1 Part 37 Uttaradhyayan Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages466
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy