SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ॥१५ -१८॥ दीप अनुक्रम [९५० -९५३] [भाग-३७] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा ||१५-१८|| निर्युक्तिः [४५९...] अध्ययनं [२४], गोमयादि 'अपिः' पूरणे तथाविधं परिष्ठापनार्ह प्रक्रमात्स्थण्डिले व्युत्सृजेदित्युत्तरेण सम्बन्धः । स्थण्डिलं च दशविशेषणपदविशिष्टमिति मनस्याधाय तद्गताखिलभङ्गोपलक्षणार्थमाद्यविशेषणपदयोर्भङ्गरचनामाह-अविद्यमान आपातःखपरोभयपक्षसमीपागमनरूपोऽस्मिन्नित्यनापातं स्थण्डिलमिति गम्यते, 'असंलोए'त्ति सूत्रत्वादिहोत्तरत्र च लिङ्गव्यत्यये न विद्यते संलोको - दूरस्थितस्यापि खपक्षादेशलोको यस्मिंस्तत्तथेति प्रथमो भङ्गः १, 'अनापातं चैव भवति संलोक' यत्रापातो नास्ति संलोकश्चास्तीति द्वितीयो भङ्गः २, 'आपातमसंलोक' मिति यत्रापातोऽस्ति न च संलोक इति तृतीयः ३, 'आपातं चैव संलोकं यत्रोभयमपि संभवतीति चतुर्थः ४, इह चापातसंलोकमिति च अर्शआदराकृतिगणत्वान्मत्वर्थीयेऽचि द्रष्टव्यं काका दशविशेषणपदज्ञानार्थ, तानि याहशे स्थण्डिले व्युत्सृजेत्तदाह- अनापाते असंलोके, कस्य पुनरयमापातः संलोकश्चेत्याह-- 'परस्य' स्वपक्षादेः, गमकत्वाचोभयत्र सापेक्षत्वेऽपि समासः, उपघातः - संयमात्मप्रवचन वाधात्मको विद्यते यत्र तदुपघातिकं न तथाऽनुपघातिकं तस्मिन्, तथा 'समे' निम्नोन्नतत्ववर्जिते 'अशुपिरे वाऽपि' तृणपर्णाद्यनाकीर्णे 'अचिरकालकृते च' दाहादिना खल्पकालनिर्वर्त्तिते, चिरकालकृते हि पुनः संमूर्च्छन्त्येव पृथ्वीका यादयः, 'विस्तीर्णे' जघन्यतोऽपि हस्तप्रमाणे 'दूरमवगाढे' जघन्यतोऽप्यधस्ताच्चतुरङ्गुलमचित्तीभूते 'नासन्ने' ग्रामारामादेरवर्त्तिनि 'विठवर्जिते' मूषकादिरन्धरहिते त्रसप्राणाश्च द्वीन्द्रियादयो वीजानि च - शाल्यादीनि सकलैकेन्द्रियोपलक्षणमेतत्, तैस्तत्रस्थैरागन्तुकैश्च रहितं वर्जितं त्रसप्राणवीजरहितं तस्मिन्, Jan Education intamational For Use Only www.pinbrary.org पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः ~70~
SR No.035037
Book TitleSavruttik Aagam Sootraani 1 Part 37 Uttaradhyayan Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages466
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy