________________
आगम (४३)
[भाग-३७] “उत्तराध्ययनानि"- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२४], मूलं [--1 / गाथा ||१५-१८|| नियुक्ति: [४५९...]
प्रवचनमा
त्राख्यम्.
२४
प्रत सूत्रांक ||१५-१८||
उत्तराध्य. | स्थण्डिल इति शेषः, 'उच्चारादीनि' उक्तरूपाणि 'व्युत्सृजेत्' परिष्ठापयेत् । इह चोचारं प्रश्रयणमित्यादाबुक्तेऽपि
पुनरुचारादीनीत्यभिधानं विस्मरणशीलस्मरणार्थमदुष्टमेवेति सूत्रचतुष्टयार्थः ॥ सम्प्रत्युक्तमुपसंहरन् यक्ष्यमाणार्थस
म्बन्धाभिधानायाह॥५१८॥
एयाओ पंच समिईओ, समासेण वियाहिया । इत्तो उतओ गुत्तीओ, वुच्छामि अणुपुब्बसो ॥१९॥ निगदसिद्धं, नवरम् ‘एत्तो'त्ति अतश्च समितिप्रतिपादनानन्तरं 'तो'त्ति तिस्रः 'अणुपुषसो ति आपत्वादानुपूर्व्या | क्रमेणेत्यर्थः । तत्राद्यां मनोगुप्तिमाह
सच्चा तहेव मोसा य, सचामोसा तहेव य । चउत्धी असचमोसा य, मणगुत्ती चउब्विहा ॥२०॥
संरंभसमारंभे, आरंभे य तहेव य । मणं पवमाणं तु, नियत्तिज जयं जई ॥२१॥ सभ्यः-अर्थात्पदार्थेम्यो हितो-यथावद्विकल्पनेनाप्तः सत्यो मनोयोगस्तद्विषया मनोगुसिरप्युपचारात्सत्या, तथैव | मृषा च-तद्विपरीतमनोयोगविषया, 'सत्यामृषा' उभयात्मकमनोयोगगोचरा, तथैव चेति समुचये, चतुर्थी 'असत्यामृषा' उभयखभावविकलमनोदलिकव्यापाररूपमनोयोगगोचरा मनोगुप्तिः, प्रक्रमाञ्च सर्वत्रैवं योजना, उपसंहारमाह-मनोगुप्तिः 'चतुर्विधा' उक्तभेदतश्चतुर्भेदा, अस्या एव स्वरूपं निरूपयन् काकोपदेष्टुमाह-संरम्भः-सङ्कल्पः सच मानसः; तथाऽहं ध्यास्यामि यथाऽसौ मरिष्यतीत्येवंविधः, समारम्भः-परपीडाकरोचाटनादिनिबन्धनं ध्यानम् ,
दीप अनुक्रम [९५०-९५३]]
५१८॥
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~71