SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [२-२१] दीप अनुक्रम [१४४५ -१४६४] [भाग-३७] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा || २-२१|| निर्युक्तिः [५४८...] अध्ययनं [३५], पृथिव्याद्ये केन्द्रियाणां 'चः समुचये तेषामपि 'सूक्ष्माणाम्' अतिश्लक्ष्णानां शरीरापेक्षया न जीवप्रदेशापेक्षया, तस्यामूर्ततयैवंप्रायव्यवहारायोगात्, 'बादराणां च' एवमेव स्थूलाना, यद्वा सूक्ष्मनामकर्मोदयात्सूक्ष्माणां तेषामपि प्रमादतो भावहिंसासम्भवाद्वादरनामकर्मोदयाच्च बादराणाम्, उपसंहर्तुमाह - ' तम्ह'ति यस्मादेवं भूतधस्तस्माद्गृहसमा - रम्भं 'संयतः' सम्यग्रहिंसादिभ्य उपरतोऽनगार इत्यर्थः 'परिवर्जयेत्' परिहरेत्, इत्थमाश्रयचिन्तां विधायाहारचिन्तामाह-'तथैव' तेनैव प्रकारेण भक्तानि च शाल्योदनादीनि पीयन्त इति पानानि पयःप्रभृतीनि तानि च भक्तपानानि तेषु, पचनानि च स्वयं विक्केदापादनकथनानि पाचनानि च तान्येवान्यैः पचनपाचनानि तेषु च भूतवधो दृश्यत इति प्रक्रमः, ततः किमित्याह - प्राणा-द्वीन्द्रियादयो भूतानि पृथिव्यादीनि तेषां दया रक्षणं प्राणभूतदया | तदर्थं तद्धेतोः, किमुक्तं भवति ? - पचनपाचनप्रवृत्तानां यः संभवी जीवोपघातः स मा भूदिति न पचेत्खतो भक्तादीति प्रक्रमो नापि पाचयेत्तदेवान्यैः । अमुमेवार्थं स्पष्टतरमाह-जलं च- पानीयं धान्यं च - शाल्यादि तन्निश्रिताःतत्रान्यत्र चोत्पद्य ये तन्निश्रया स्थिता पूतरकभुजगेलिकापिपीलिकाप्रभृतय उपलक्षणत्वात्तद्रूपाश्च 'जीवाः' प्राणिनः, एवं पृथ्वीकाष्ठनिश्रिता एकेन्द्रियादयो हन्यन्ते भक्तपानेषु प्रक्रमात्पच्यमानादिषु यत एवं तस्माद्भिर्न पाचयेत्, अपेर्गम्यमानत्वात्पाचयेदपि न किं पुनः खयं पचेत्, अनुमतिनिषेधोपलक्षणं चैतत् । अपरं च विसर्पतीति Education intimation For rg पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३] मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः ~365~
SR No.035037
Book TitleSavruttik Aagam Sootraani 1 Part 37 Uttaradhyayan Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages466
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size96 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy