________________
आगम (४३)
[भाग-३७] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [३२], मूलं [-1 / गाथा ||६-८|| नियुक्ति: [५२६...]
बृहद्वृत्तिः
ना
प्रत सूत्रांक [६-८]
उत्तराध्य. तृष्णा हता यस्य न भवति लोभः, किमुक्तं भवति ?-लोभाभावात्तृष्णाऽभावः, तृष्णाग्रहणेनोक्तनीत्या रागद्वेषयो
रुक्तत्वात्तयोश्च लोभक्षये सर्वथैवाभावाद, अत एव प्राधान्याल्लोभस्य रागान्तर्गतत्वेऽपि पृथगुपादानं, दृश्यते हि
प्रधानस्य सामान्योक्तावपि विशेषोक्त्यभिधानं, यथा ब्रामणा आयाता वशिष्ठोऽप्यायात इति, स तर्हि केन हत। ॥६२४॥ इत्याह-लोभो हतो यस्य न किश्चनानि-द्रव्याणि सन्तीति गम्यते,सत्सु हि तेषु संभवत्यभिकाङ्क्षा तद्रूप एव च लोभः,
इयत्तु तत्सद्भावेऽपि लोभहननं भरतादीनां तत्कादाचित्कमित्यविवक्षितमेव, पठ्यते च-यस्य न किञ्चन, नास्ति
न किचिद्विद्यते द्रव्यादिकमिति गम्यत इति सूत्रार्थः॥ सन्त्वेवं दुःखस्य मोहादयो हेतवो, हननोपायस्तेषां| |किमयमेवोतान्योऽप्यस्ति ? इत्याशय सविस्तरं तदुन्मूलनापायं विवदिषुःप्रस्तावमारचयति
रागं च दोसं च तहेव मोहं, उद्धत्तुकामेण समूलजालं।.
जे जे उवाया पडिवजियच्या, ते कित्तइस्सामि अहाणुपुचि ॥९॥ स्पष्टं, नवरं यदिह रागस्य प्रथममुपादानं पूर्व तु मोहस्य तत् मोहस्य रागद्वेषयोश्च परस्परायत्तत्वेन पूर्वापरावस्थानियमात्, तथा 'उद्धकामेन' इत्युन्मूलयितुमिच्छता सह मूलानामिव मूलाना-तीनकपायोदयादीनां मोहाकृतीनां जालन-समूहेन वर्तत इति समूलजालस्तम्, एतच रागादीनां प्रत्येक विशेषणम् , 'उपायाः तदुद्धरण-| हेतवः 'प्रतिपत्तव्याः' अङ्गीकृतव्याः कर्तुमिति गम्यते, पठ्यते च-अपाया परिवज्जियवा' इति 'अपायाः' तदुद्धरणप्रवृत्तानां विषन्धकारिणोऽर्थाः 'परिवर्जयितव्याः' परिहर्चन्या इति सूत्रावयवार्थः ॥ यथाप्रतिज्ञातमेवाह
XSASUR
दीप अनुक्रम [१२५२-१२५४]
॥६२४॥
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~282