SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ आगम (४३) [भाग-३७] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३२], मूलं [-1 / गाथा ||६-८|| नियुक्ति: [५२६...] प्रत सूत्रांक [६-८] -% % नन्तानुबन्धिकषायरूपयोः सत्तायामवश्यम्भावी मिथ्यात्वोदयः, अत एवोपशान्तकषायवीतरागस्यापि मिथ्यात्वगमनं, तत्र च सिद्ध एवाज्ञानरूपो मोहः, एतेन च परस्परं हेतुहेतुमद्भावाभिधानेन यथा रागादीनां सम्भव-13 स्तथोक्तं, सम्प्रति यथतेषां दुःखहेतुत्वं तथा वक्तुमाह-रागश्च मायालोभात्मकः 'द्वेषोऽपिच' क्रोधमानात्मकः कर्मज्ञानावरणादि तस्य वीज-कारणं कर्मवीजं, कर्म चस्प भिन्नक्रमत्वान्मोहात्प्रभवतीति मोहप्रभवं च-मोहकारणं वदन्ति । 'चः सर्वत्र समुचये 'कर्मच' इति कर्म पुनर्जातयश्च मरणानि च जातिमरणं तस्य 'मूलं कारणं 'दुःखं' संसारमसातपक्षे तु दुःखयतीति दुःखं, कोऽर्थः ?-दुःखहेतुं, चस्य पुनरर्थस्य भिन्नक्रमत्वात् जातिमरणं पुनर्वदन्ति, तीर्थकरादय इति गम्यते, जातिमरणस्यैवातिशयदुःखोत्पादकत्वात् , उक्तं हि-"मेरमाणस्स जं दुक्खं, जायमाणस्स जंतुणो । तेण| दुक्खेण संतत्तो, न सरति जातिमप्पणो॥१॥" यतश्चैवमतः किं स्थितमित्याह-'दुःखम् उक्तरूपं हतमिव हतं, केनेत्याह-यस्य 'न भवति' न विद्यते, कोऽसौ ?-मोहः, अस्यैव तन्मूलकारणत्वात् , ततो हि कर्म कर्मणश्च दुःखमित्यनन्तरमेवोक्तं, हतमिम हतमिति च व्याख्यातं तत्क्षयेऽपि नारकादिगतौ स्वतत्त्वभावनापरस्यापि कियतोऽपि दुःखस्य सम्भवात्, यदि दुःखहननं मोहाभावाद् असावपि कुत इत्याह-मोहो हतो यस्य न भवति तृष्णा ४ कोऽधः ?-तृष्णाया अभावान्मोहाभावः, तदायतनत्वेन तस्या अभिधानात् , तृष्णाया अपि कुतो हननमित्याह १ म्रियमाणस्य यदुःख जायमानस्य जन्तोः । तेन दुःखेन संतप्तो न स्मरति जातिमात्मनः ॥ १॥ २ ख्यापक्षयेऽपि % % दीप अनुक्रम [१२५२-१२५४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति: ~281
SR No.035037
Book TitleSavruttik Aagam Sootraani 1 Part 37 Uttaradhyayan Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages466
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size96 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy