________________
आगम (४३)
[भाग-३७] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [३२], मूलं [-] / गाथा ||६-८|| नियुक्ति: [५२६...]
44
उत्तराध्य- बृहद्वृत्तिः ॥६२२॥
प्रत सूत्रांक [६-८]
न्येन दुःखप्रमोक्षहेतुत्वख्यापनार्थं यथा तेषां सम्भवो यथा दुःखहेतुत्वं यथा च दुःखस्य प्रसङ्गतस्तेषां चाभावस्तथा । प्रमादस्थावि(ऽभि)धातुमाह
ना०३२ | जहा य अंडप्पभवा बलागा, अंडं बलागप्पभवं जहा य । एमेव मोहाययणं खु तण्हं, मोहं च तण्हाययणं वयंति ॥६॥रागो य दोसोविय कम्मबीयं, कम्मं च मोहप्पभबं वयंति । कम्मं च जाईमरणस्स मूलं, दुक्खं च जाईमरणं वयंति ॥७॥ दुक्खं हयं जस्स न होइ मोहो, मोहो हो जस्स न होइ तण्हा । तण्हा हया जरस न होइ लोभो, लोभो हओ जस्स न किंचणाई ॥८॥
'यथा चेति येनैव प्रकारेणाण्डं-प्रतीतं ततः प्रभव-उत्पत्तिर्यस्याः साऽण्डप्रभवा 'बलाका' पक्षिविशेषः, अण्ड बलाकातः प्रभवतीति बलाकाप्रभवं यथा च, किमुक्तं भवति ?-यथाऽनयोः परस्परमुत्पत्तिस्थानता 'एवमेव' अनेनैव प्रकारेण मोहयति-मूढतां नयत्यात्मानमिति मोहः-अज्ञानं तह मिथ्यात्वदोषदुष्टं ज्ञानमेव गृह्यते, उक्तं हि"जह दुधयणमवयण"मित्यादि, आयतनम्-उत्पत्तिस्थानं यस्याः सा मोहायतना तां 'खुः' अवधारणे ततो मोहायतनामेव 'तण्ह'न्ति तृष्णां वदन्तीति सम्बन्धः, यथोक्तमोहाभावे अवश्यम्भावी तृष्णाक्षय इति, मोहं च तृष्णाऽऽ-17||२|| यतनं यस्यासौ तृष्णायतनस्तं वदन्ति, तृष्णा हि सति मूर्छा, सा चात्यन्तदुस्त्यजेति रागप्रधाना ततस्तया राग उपलक्ष्यते सति च तत्र द्वेषोऽपि संभवतीति सोऽप्यनयवाक्षिप्यते ततस्तृष्णाग्रहणेन रागद्वेषावुक्ती, एतयोश्चा
दीप अनुक्रम [१२५२-१२५४]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~280