________________
आगम (४३)
[भाग-३७] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [३२], मूलं [-] / गाथा ||४|| नियुक्ति: [५२६...]
प्रत
धिकामः, अत्र च समाधिव्यभाषभेदाद्विभेदः, तत्र द्रव्यसमाधिः क्षीरशर्करादिद्रव्याणां परस्परमविरोधेनावस्थान, मावसमाधिस्तु ज्ञानादीनां परस्परमवाधयाऽवस्थानं तदनन्यत्वाच ज्ञानादीनामयमवेह गृह्यते, तथा च ज्ञानाघवाप्सुकाम इत्युक्तं भवति, श्रमणस्तपस्वीति प्राग्वदिति सूत्रार्थः ॥ कालादिदोषत एवंविधसहायाप्राप्ती यत्कृत्यं | तदाह
न वा लमिजा निउणं सहायं, गुणाहियं वा गुणओ समं वा।
एगोवि पावाइ विवजयंती, विहरेज कामेसु असज्जमाणो ॥५॥ 'न' निषेधे वाशब्दश्चेदर्थे ततश्च न चेत् 'लभेत्' प्रामुयात् 'निपुणम्' इति निपुणवुद्धिं 'सहायं गुणैः-ज्ञाना|दिभिरधिकम्-अर्गलं गुणाधिकं वा 'गुणतः' इति ज्ञानादिगुणानाश्रित्य 'समं वा' तुल्यमुभयत्रात्मन इति गम्यते,
ति विकल्ये, ततः किमित्याह-'एकोऽपि' असहायोऽपि 'पापानि' पापहेतुभूतान्यनुष्ठानानि 'विवर्जयन्' विशे६षेण परिहरन् , पठ्यते च-'अणायरंतो'त्ति अनाचरन् 'विहरेत्' संयमाध्वनि यायात् 'कामेषु' विषयेषु 'असजन्|
प्रतिबन्धमकुर्वन्, तथाविधगीतार्थयतिविषयं चैतद्, अन्यथैकाकिविहारस्यागमे निषिद्धत्वात्, एतदविधाने च 'मध्यग्रहणे आद्यन्तयोरपि ग्रहणं भवतीति न्यायादाहारवसतिविषयोऽप्यपवाद उक्त एव भवतीति मन्तव्यम् ॥ इत्थं सप्रसङ्गं ज्ञानादीनां दुःखप्रमोक्षोपायत्यमुक्तम् , इदानीं तेषामपि मोहादिक्षयनिबन्धनत्यात्तत्क्षयस्यैव प्राधा
दीप अनुक्रम [१२५०]
*
*-*
JAMERatinintamational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~279