SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ आगम (४३) [भाग-३७] “उत्तराध्ययनानि"- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [२८], मूलं [-] / गाथा ||९-१२|| नियुक्ति: [५०२...] ब्रहद्वृत्तिः प्रत सूत्रांक ||९-१२|| उत्तराध्य. जीवस्य लक्षणम्, एतेन हि जीवोऽनन्यसाधारणतया लक्ष्यत इति । इत्थं जीवलक्षणमभिधाय पुद्गलानां लक्षण- मोक्षमार्ग माह-शब्दः' ध्वनिः 'अन्धकारः' तिमिरम् , उभयत्र सूत्रत्वात्सुपो लुक्, 'उद्योतः' रत्नादिप्रकाशः 'प्रभा' चन्द्रा-||४|| दिदीधितिः 'छाया' शैत्यगुणाः 'आतपः' रविविम्बजनित उष्णप्रकाशः, इतिशब्द आद्यर्थः, ततश्च सम्बन्धभेदा गत्य०२८ ॥५६॥४॥ दीनां परिग्रहः,वा समुच्चये,वर्णश्च-नीलादिः रसश्च-तिक्तादिः गन्धश्च-सुरभ्यादिः स्पर्शश्च-शीतादिरेषां द्वन्द्वः, इतिशब्देन चाद्यार्थेनैषां ग्रहणेऽपि पुनरुपादानं सर्वत्रानुयायिताख्यापनार्थ, "पुद्गलानां' स्कन्धादीनां 'तुः पुनरर्थः लक्षणम्, एतैरेव तेषां लक्ष्यत्वात् ,आह-पौगलिकत्वे शब्दादीनां पुद्गल लक्षणत्वं युक्तं तय कथम् ?, उच्यते,शब्दस्तावन्मूर्चत्वात्पौद्गलिको, मूर्तिमायोऽस्य प्रतिघातविधायित्वादिभ्यः,उक्तं हि-"प्रतिघातविधायित्वालोष्टवन्मूर्तता ध्वनेः। द्वारवातानुपाताच, धूमवच परिस्फुटम् ॥१॥" अन्धकारोद्योतप्रमाणां तु पौद्गलिकत्वं चक्षुर्विज्ञानविषयत्वात्, प्रयोगश्चात्र-यत्पौगलिक न भवति तच्चक्षुर्विज्ञानविषयमपि न भवति, यथाऽऽत्मादयः, चक्षुर्विज्ञानविषयाश्चान्धकारादयः, अथालोकामावोऽन्धकारं, तथा च निरुपाख्यत्वेन तस्यासत्यमुच्यते, न, सतः सर्वथा निरन्वयाभावस्थाभावेनाभावरूपत्वेऽपि निरूपाख्यत्वासिद्धेः, तथाहि-घटस्य कपालाख्यपर्यायान्तरोत्पत्तिरेवाभावो न पुनरु-14 ॥५६॥ च्छेदमात्रम्, एवमलोकस्याप्यन्धकाराख्यपर्यायान्तरोत्पत्तिरेवाभावो न तु तथाविधपरमाणुरूपतयाऽप्यभाव एव, इत्थं चेतत्, परिणामित्वाद्वस्तुनः, परिणामस्य च सत एव बस्तुनः पूर्वरूपपरित्यागेन रूपान्तरोत्पत्तिरूपत्वात् , GANACKSOCCCCAX दीप अनुक्रम [१०८४-१०८७]] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति: ~156~
SR No.035037
Book TitleSavruttik Aagam Sootraani 1 Part 37 Uttaradhyayan Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages466
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy