SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ आगम (४३) [भाग-३७] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२८], मूलं [-] / गाथा ||१३|| नियुक्ति: [५०२...] उक्तं हि-"परिणामो बर्थान्तरगमनं न च सर्वथा व्यवस्थानम्। न च सर्वथा विनाशः परिणामस्तद्विदामिष्टः ॥१॥" एवं छायाऽऽतपयोरपि पौगलिकत्वं वस्तुत्वं च भावनीयं, तथा स्पर्शनाखत्वाचानयोः पौगलिकत्वं, तथाहि* छायायाः शैत्यमातपस्य चोष्णत्वं प्रतिपाणि प्रतीतमेवेति, अतश्च यत्कैश्चिदुच्यते-शब्दोऽम्बरगुण इत्यादि, तदपास्त भवति, उक्तश्च-"अणवः सर्वशक्तित्वाञदसंसर्गवृत्तयः। छायाऽऽतपस्तमः शब्दभावेन परिणामिनः ॥१॥" इत्यादि, ट्रावर्णादीनां च पौगलिकत्वं सुप्रसिद्धमेवेति सूत्रचतुष्टयार्थः ॥ अनेन द्रव्यलक्षणमुक्तं. पर्यायलक्षणमाह एगत्तं च पुत्तं च, संखा संठाणमेव य । संजोगा य विभागा य, पजवाणं तु लक्वर्ण ॥ १३ ॥ एकस्य भावः एकत्वं-भिन्नेष्वपि परमाण्वादिषु यदेकोऽयं घटादिरिति प्रतीतिहेतुः सामान्यपरिणतिरूपं, चशब्द उत्तरापेक्षया समुच्चये,पृथग्भावः पृथक्त्वम्-अयमस्मात्पृथगिति प्रत्ययोपनिबन्धनं, 'चः' सर्वत्र प्राग्वत् ,संख्यानं ट्र सङ्ख्या-यत एको द्वौ त्रय इत्यादिका प्रतीतिरुपजायते, संतिष्ठतेऽनेनाकारविशेषेण वस्त्विति संस्थानं-परिमण्ड लोऽयमित्यादिबुद्धिनिबन्धनम् , एवेति पूरणे, 'संयोगाः' अयमङ्गुल्योः संयोग इत्यादिव्यपदेशहेतवः, 'विभागाश्च' अयमितो विभक्त इति बुद्धिहेतवः, उभयत्र सम्बन्धिभेदेन भेदमाश्रित्य बहुवचननिर्देशः, चशब्दोऽनुक्तनवपुराणत्वादिपोयोपलक्षका, 'पर्यवाणाम्' उक्तनिरुक्तानां, 'तुः पूरणे 'लक्षणम्' असाधारणरूपम्, अयमभिप्राय:-यः[ कश्चिदस्खलितप्रत्ययः स सर्वः सनिवन्धनो, यथा घटादिप्रत्ययः, अस्खलितप्रत्ययाश्चामी एकोऽयमित्यादिप्रत्ययाः, ****** प्रत सूत्रांक ||१३|| ** दीप अनुक्रम [१०८८] * पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति: ~157.
SR No.035037
Book TitleSavruttik Aagam Sootraani 1 Part 37 Uttaradhyayan Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages466
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy