________________
आगम
(४३)
प्रत
सूत्रांक
||९-१२||
दीप
अनुक्रम
[१०८४
-१०८७]
[भाग-३७] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा ||९-१२ || निर्युक्ति: [५०२...]
अध्ययनं [२८],
| एवं च स्थितमेतद्- अवगाहेन कार्यरूपेण लक्ष्यमाणत्वादवगाहलक्षणं नमः, तथा वर्त्तन्ते भवन्ति भावास्तेन तेन रूपेण तान् प्रति प्रयोजकत्वं वर्त्तना सा लक्षणं-लिङ्गमस्येति वर्त्तनालक्षणः, कोऽसौ ? - कालः, इदमुक्तं भवति-यदमी शीतवातातपादयः ऋतुविभागेन भवन्ति यच केचिच्छंशधरकर निकरानुकारिपारतीप्रसवाः अन्ये तु तुहिनशिलाशकलविशदकुन्दमालतीकुसुमवासवाहिनः अपरे च केशरतिलकुरुन कशिरीषाकोलप्रसूनजृम्भमाणपरागभाजः तदितरे च करिदशनसकलधवलमल्लिकापहलपरिमलहारिणः परे च कदम्बकेतकरजःपूरपूरिताम्बराः अपरे तु सप्तच्छदकुसुमरजोधूलिधूसरितविश्वविश्वम्मराः अविशिष्टविशिष्टवस्तवः प्रकाशन्ते क्रमेणैव भुवनभागांस्तदवश्यममीषां नैयत्यहेतुना केनापि भवितव्यं स च काल इत्यलं प्रसङ्गेन, सर्वथा वर्त्तनया लक्ष्यमाणत्वादस्ति काल इति स्थितं तथा 'जीवः' जन्तुरुपयोगो-मतिज्ञानादि लक्षणं - रूपं यस्यासौ उपयोगलक्षणो, मतिज्ञानादिको छुपयोगस्तद्धर्मः, स च स्वसंविदित एवेति, तदनुभवतो रूपाद्यनुभवादिव घटादिर्जीवो लक्ष्यत इति तलक्षणमुच्यते, प्रपञ्चितं चैतदिहैव प्रागन्यत्र चेति न पुनः प्रतन्यते, अत एव 'ज्ञानेन' विशेषप्राहिणा 'दर्शनेन च' सामान्यविषयेण 'सुखेन च' आहादरूपेण दुःखेन च तद्विपरीतेन प्रक्रमाल्लक्ष्यत इति गम्यते, न हि ज्ञानादीन्यजीवेषु कदाचिदुपलभ्यन्त इतिकृत्वा । | सम्प्रति विनेयानां दृढतरसंस्काराधानाय उक्तलक्षणमनूध लक्षणान्तरमाह-'ज्ञानं च' उक्तरूपमेवं दर्शनं चैव चरित्रं च तपस्तथा 'वीर्य' वीर्यान्तरायक्षयोपशमसमुत्थं सामर्थ्यलक्षणम् 'उपयोगच' अवहितत्वं किमित्याह-'एतत्' ज्ञानादि
Education intimation
For Fans Only
www.janbay.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
~ 155 ~