SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||३८ -५१॥ दीप अनुक्रम [१०४४-] -१०५७] [भाग-३७] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्तिः+वृत्तिः) अध्ययनं [२६], मूलं [--] / गाथा ||३८-५१ || निर्युक्तिः [४८६...] नवरं पुनरभिधानमस्य पुनः पुनरुपदेष्टव्यमेव गुरुभिर्न प्रयासो मन्तव्य इति ख्यापनार्थम् । कथं पुनश्चतुर्थपौरुष्यां स्वाध्यायं कुर्यादित्याह - पौरुण्यां चतुर्थ्यां 'काल' वैरात्रिकं 'तुः' पूरणे 'पडिलेहिय'त्ति प्रत्युपेक्ष्य - प्रतिजागर्य्यं प्राग्वद् गृहीत्वा च स्वाध्यायं ततः कुर्यात् 'अबोधयन्' अनुत्थापयन् 'असंयतान्' अगारिणः, तदुत्थापने तत्पापस्थानेषु तेषां प्रवर्त्तनसम्भवात् । पौरुष्याः प्रक्रमाच्चतुर्थ्याश्चतुर्भागेऽवशिष्यमाण इति शेषः, तत्र हि कालवेलायाः सम्भव | इति न कालस्य ग्रहणं, वन्दित्वा ततो गुरुं प्रतिक्रम्य 'कालस्य' वैरात्रिकस्य 'काल' प्राभातिकं, तुशब्दो वक्ष्यमाणविशेषद्योतकः, 'पडिलेहए' ति प्रत्युपेक्षेत प्राग्वद् गृह्णीयाच, इह च साक्षात्प्रत्युपेक्षणस्यैव पुनः पुनरभिधानं बहुतरविषयत्वात्, अत्र च सम्प्रदायः- “ताहे गुरू उट्ठित्ता गुणंति जाब चरिमो जामो पत्तो, चरिमे जामे सधे उद्वित्ता वेरत्तियं घेत्तुं सज्ज्ञायं करेंति, ताहे गुरु सुवंति, पत्ते पाभाइए काले जो पाभाइयकालं घेच्छति सो कालस्स पडि| कमिउं पाभाइयं कालं गिण्हद, सेसा कालवेलाए कालस्स पडिक्कर्मति, तओ आवस्तयं कुणंति " मध्यमप्रक्रमापेक्षं च कालत्रयग्रहणमुक्तम्, अन्यथा द्युत्सर्गत उत्कर्षेण चत्वारो जघन्येन त्रयः काला अपवादतश्चोत्कर्षेण द्वौ १ तदा गुरव उत्थाय गुणयन्ति यावचरमो यामः प्राप्तः, चरमे यामे सर्वे उत्थाय वैरात्रिकं गृहीत्वा स्वाध्यायं कुर्वन्ति, तदा गुरवः स्वपन्ति प्राप्ते प्राभातिके काले यः प्राभातिककालं ग्रहीष्यति स कालस्य प्रतिक्रम्य प्राभातिकं काढं गृह्णाति, शेषाः कालवेलायां कालस्य प्रतिक्राम्यन्ति तत आवश्यकं कुर्वन्ति । Education intol Forest Use Only www.incibrary.org पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३] मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः ~ 125 ~
SR No.035037
Book TitleSavruttik Aagam Sootraani 1 Part 37 Uttaradhyayan Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages466
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy