________________
आगम (४३)
[भाग-३६] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [८], मूलं [-] / गाथा ||२०|| नियुक्ति: [२५९...]
प्रत सूत्रांक ||२०||
लमिति (पा०३-३-१) बहुलवचनाच्छः, यद्वा-'इस्थिति थियो 'विप्पजहे'त्ति विप्रजयात्, पूर्वत्र च नारी-II
ग्रहणान्मनुष्यस्त्रिय एवोक्ता, इह च देवतिर्यक्सम्बन्धिन्योऽपि त्याज्यतयोच्यन्ते इति न पौनरुक्त्यमुपदेशत्वाद्वा, तिअनगारः' प्राग्वत् , किं पुनः कुर्यादित्याह-'धर्ममेव ब्रह्मचर्यादिरूपं, चस्यावधारणार्थत्वात् , 'पेशलम्' इह परत्र
चैकान्तहितत्वेनातिमनोज्ञं 'ज्ञात्वा' अवबुध्य, 'तत्र' इति धर्मे 'स्थापयेत्' निवेशयेद् 'भिक्षुः' यतिः आत्मानं विषया
मिलापनिषेधत इति सूत्रार्थः ॥ अध्ययनार्थोपसंहारमाहदिइइ एस धम्मे अक्खाए कविलेणं च विसुद्धपपणेणं । तरिहिंति जे उ काहिंति तेहिं आराहिया दुवे लोगु२०त्तिषेमि
- व्याख्या-'इति' अनेन प्रकारेण 'एषः' अनन्तरमुक्तरूपः 'धर्मः' यतिधर्मः आङिति सकलतत्व रूपाभिव्याप्त्या हाख्यातः-कथितः आख्यातः, केनेत्याह-'कपिलेन' इत्यात्मानमेव निर्दिशति, पूर्वसङ्गतिकत्वादमी मवचनतः
प्रतिपद्यन्तामिति, 'चः' पूरणे, 'विशुद्धप्रज्ञेन' निर्मलावबोधेन, अतोऽर्थसिद्धिमाह-'तरिहिंति'त्ति तरिष्यन्ति, भवार्णवमिति शेषः, 'ये' इत्यविशेषाभिधानं, 'तुः' पूरणे, ततो विशेषत एवं तरिष्यन्ति, ये 'करिष्यन्ति' अनुष्ठास्यन्ति,
प्रक्रमादमुं धर्मम् , अन्यच 'तैः' 'आराधितौ' सफलीकृतौ 'बी' द्विसयौ लोको, इहलोकपरलोकावित्यर्थः, इह १ महाजनपूज्यतया परत्र च निःश्रेयसाभ्युदयप्राप्त्येति सूत्रार्थः ।। 'इतिः' परिसमाप्ती ब्रवीमि इति नयाश्च प्राग्वदिति।। है इति श्रीशान्त्याचार्यविरचितायां शिष्यहितायां विशेषटीकायामिदमष्टममध्ययनं व्याख्यातं कापिलं नाम ।।
दीप अनुक्रम [२२८]
vपूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
अत्र अध्ययनं- ८ परिसमाप्तं
~96~