SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||१८|| दीप अनुक्रम [२२६] उत्तराध्य. बृहद्वृत्तिः ॥२९७॥ [भाग-३६] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा ||१८|| निर्युक्तिः [२५९...] अध्ययनं [८], च हारिल :- "वातोद्धृतो दहति हुतभुग्देहमेकं नराणां मत्तो नागः कुपितभुजगश्चैकदेहं तथैव । ज्ञानं शीलं विनयविभवौदार्यविज्ञानदेहान् सर्वानर्थान् दहति वनिताऽऽमुष्मिकानैहिकांश्च ॥ १ ॥” “गिज्झेज' त्ति गृद्धयेद्-अभिकाङ्क्षावान् भवेत् कीदृशीषु ? - 'गंडवच्छासु'त्ति गण्ड-गडु, इह चोपचितपिशितपिण्डरूपतया गल्त्पूतिरुधिरार्द्रतासम्भवाच तदुपमत्वाद्गण्डे कुचावुक्तौ ते वक्षसि यासां तास्तथाभूतास्तासु, वैराग्योत्पादनार्थं चेत्थमुक्तं, तथाऽनेकानि-अनेकसङ्ख्यानि चञ्चलतया चित्तानि - मनांसि यासां ता अनेकचित्तास्तासु, आह च - "अन्यस्याङ्के ललति विशदं चान्यमालिङ्गय शेते, अन्यं वाचा चपयति हसत्यन्यमन्यं च रौति । अन्यं द्वेष्टि स्पृशति कशति प्रोर्णुते वाऽन्यमिष्टं, नार्यो नृत्यत्तडित इव धिक् चञ्चलाञ्चालिकाश्च ॥ १ ॥” तथा 'जाओ' त्ति याः 'पुरुषं' मनुष्यं कुलीनभपीति गम्यते, 'प्रलोभ्य' त्वमेव मे शरणं त्वमेव च प्रीतिकृदित्यादिकाभिर्वाग्भिर्विप्रतार्य क्रीडन्ति, 'जहा व'| ति वाशब्दस्यैवकारार्थत्वाद्यथैव दासैः, एयागच्छ मा यासीरित्यादिवितथोक्तिप्रभृतिभिः क्रीडाभिर्विलसन्तीति । सूत्रार्थः ॥ पुनस्तासामेवातिहेयतां दर्शयन्नाह नारीसु नो पगिज्झिजा इत्थीविधपजहे अणगारे । धम्मं च पेसलं णचा तत्थ ठवेज भिक्खु अप्पाणं ॥ १९ ॥ व्याख्या- 'नारीषु' स्त्रीषु 'नो' नैव 'प्रगृध्येत्' प्रशब्द आदिकर्म्मणि ततो गृद्धिमारभेतापि न, किं पुनः कुर्यादिति भावः, 'इत्थी विष्पजहे ति स्त्रियो विविधैः प्रकारैः प्रकर्षेण च जहाति-त्यजतीति स्त्रीविप्रजहः, उणादयो बहु For Parsons Privat कापिली याध्य. ८ ~95~ ॥२९७॥ पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
SR No.035036
Book TitleSavruttik Aagam Sootraani 1 Part 36 Uttaradhyayan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy