SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ॥१४॥ दीप अनुक्रम [२२२] [भाग-३६] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा ||१४|| निर्युक्तिः [२५९...] अध्ययनं [८], व्याख्या – 'इद्द' अस्मिन् जन्मनि 'जीवितं' असंयमजीवितम् 'अनियम्य' द्वादशविधतपोविधानादिनाऽनियत्र्य 'प्रभ्रष्टाः' च्युताः, केभ्यः १ - समाहियो गेहिं ति समाधिः- चित्तखास्थ्यं तत्प्रधाना योगाः- शुभमनोवाक्कायव्यापाराः समाधियोगाः, यद्वा समाधिश्च शुभचित्तैकाग्रता योगाव - पृथगेव प्रत्युपेक्षणादयो व्यापाराः समाधियोगाः तेभ्यः, अनियन्त्रितात्मनां हि पदे पदे तद्भ्रंशसम्भव इति, 'ते' अनन्तरमुक्ताः कामभोगेषु अभिहितखरूपेषु रसः - अत्यन्तासक्तिरूपस्तेन गृद्धाः तेष्वभिकाङ्क्षावन्तः कामभोगरसगृद्धाः, यद्वा रसाः- पृथगेव शृङ्गारादयो वा भोगान्तर्गतत्वेऽपि चैषां पृथगुपादानमतिगृद्धिविषयताख्यापनार्थम् 'उपपद्यन्ते' जायन्ते 'आसुरे' असुरसम्बन्धिनि काये, असुरनिकाये इत्यर्थः, इदमुक्तं भवति एवंविधाः किञ्चित् कादाचित्कमनुष्ठानमनुतिष्ठन्तोऽप्यसुरेष्वेवोत्पद्यन्ते इति सूत्रार्थः ॥ ततोऽपि च्युतास्ते किमामुवन्तीत्याह तत्तोऽवि उवहित्ता संसारं बहुं परियडति । बहुकम्मलेवलित्ताणं बोही होइ सुदुलहा तेसिं ॥ १५ ॥ व्याख्या- 'ततोऽपि च ' असुरनिकायाद् 'उद्धृत्य' तत्परित्यागेनान्यत्र गत्वा 'संसार' चतुर्गतिरूपं बहुशब्दस्य 'बहुपूपे घृतं श्रेय' इत्यादिषु विपुलवाचिनोऽपि दर्शनाद्वहुं विपुलं विस्तीर्णमितियावत्, बहुप्रकारं वा चतुरशीतियो निलक्षतया 'अणुपरियंति' त्ति अनुपरियन्ति, सातत्येन पर्यटन्तीत्यर्थः, पठन्ति च- 'अणुचरंति' ति स्पष्टं, किंच-बहूनि १ अणुपरियंति इति टीका For Parsons Privat antarany org पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः ~92~
SR No.035036
Book TitleSavruttik Aagam Sootraani 1 Part 36 Uttaradhyayan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy