________________
आगम (४३)
[भाग-३६] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [८], मूलं [-1 / गाथा ||१२|| नियुक्ति: [२५९...]
प्रत सूत्रांक ||१२||
सेविजा इत्यस्यानन्तरं द्रष्टव्यः, ततश्च प्रान्तान्यन्तानि च सेवेतैव न त्वसाराणीति परिष्ठापयेद् , गच्छनिर्गतापेक्षया वा प्रान्तानि चैव सेवेत, तस्य तथाविधानामेव ग्रहणानुज्ञानात् , कानि पुनस्तानीत्याह-'सीयपिंड'ति शीतलः पिण्ड:-आहारः, शीतश्चासौ पिण्डश्च शीतपिण्डस्तं, शीतोऽपि शाल्यादिपिण्डः सरस एव स्यात् अत आह'पुराणा' प्रभूतवर्षधृताः 'कुल्माषाः' राजमाषाः, एते हि पुराणा अत्यन्तपूतयो नीरसाश्च भवन्तीत्येतद्रहणम् , उपलक्षणं चैतत् पुराणमुद्गादीनां, 'अदु' इति अथवा 'बुकसं' मुद्गमापादिनखिकानिष्पन्नमन्नमतिनिपीडितरसं वा 'पुलाकम् ' असारं बल्लचनकादि, या समुचये, 'जवणट्टत्ति यापनार्थ-शरीरनिर्वाहणार्थ, वा समुच्चये, उत्तरत्र योक्ष्यते, Kा सेवए'त्ति सेवेतोपभुजीत, यापनार्थमित्यनेनैतत सूचितं-यदि शरीरयापना भवति तदैव निपेवेत, यदि त्वतिवातो
कादिना तथापनैव न स्यात्ततो न निपेवेवापि, गच्छगतापेक्षमेतत् , तन्निर्गतश्चैतान्येव यापनार्थमपि निषेवेत, मन्थु वा-पदरादिचूर्णम् , अतिरूक्षतया चास्य प्रान्तत्वं, सेवेतेति सम्बन्धः, पठ्यते च-'जवणवाए णिसेवए मंथु |ति, तथैव नवरं मन्थुमित्यत्र चशब्दो लुप्तनिर्दिष्टो द्रष्टव्यः, असारवस्तूपलक्षणं चोभयत्र मन्थुग्रहणं, पुनः क्रियाऽभिधानं च न सकृदेवावाप्सान्यमूनि सेवेत किन्त्वनेकधाऽपीतिख्यापनार्थमिति सूत्रार्थः ॥ यदुक्तं-'शुद्धपणाखात्मानं स्थापयेदिति, तद्विपर्यये वाधकमाहजे लक्खणं च सुविणं च अंगविजं च जे पति।न हु ते समणा बुचंति एवं आयरिएहिं अक्खापं ॥१॥
-22622-
04
दीप
अनुक्रम [२२०]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~90~